Enter your Email Address to subscribe to our newsletters

- विवेकशुक्लः
अखिलभारतीयचिकित्साविज्ञानसंस्थानात् अर्थात् एम्स-संस्थानात् प्रायः षट्-सप्तकिलोमीटरपरिमिते दूरे राजधानी-नगरस्य पृथ्वीराजमार्गे यदा यॉर्क-कब्रिस्तानस्य अन्तः प्रविश्यते, तदा सहसा कोलाहलः शान्तो भवति। द्वारस्य समीपे एव एका लघ्वी समाधिः दृश्यते। तस्याः अवस्थां दृष्ट्वा प्रतीयते यत् वर्षेभ्यः तस्यां कदापि पुष्पाणि न अर्पितानि स्युः। किन्तु तत्र राजकुमारी अमृतकौरः सुप्तवती अस्ति। सा महात्मगान्धिनः निकट-सहयोगिनी, स्वतन्त्रभारतस्य प्रथमा स्वास्थ्यामन्त्री तथा एम्स-संस्थानस्य संस्थापिका च आसीत्।
अमृतकौरः कपूरथलाराजपरिवारसम्बद्धा आसीत्। सा आक्सफोर्ड्-विश्वविद्यालये शिक्षां प्राप्तवती तथा स्वातन्त्र्यप्राप्तेः अनन्तरं नेहरू-मन्त्रिमण्डले स्वास्थ्य-मन्त्रीपदम् अलङ्कृतवती। प्रारम्भे एम्स-संस्थानं कोलकातानगरे स्थापयितुं प्रस्तावः आसीत्, किन्तु पश्चिमबङ्गालस्य मुख्यमन्त्री डॉ. बी.सी. रायः एतत् उचितं न अमन्यत। फलतः कोलकातानगरस्य हानिः अभवत्, दिल्ली इत्यस्याः लाभश्च। १९५२ तमे वर्षे अस्य संस्थानस्य आधारशिला स्थापिता। १८ फरवरीमासे १९५६ तमे वर्षे अमृतकौरः इत्यनया लोकसभायां विधेयकं प्रस्तुतम्। २ जूनमासे १९५६ तमे वर्षे अखिलभारतीय-चिकित्सा-विज्ञानसंस्थानाधिनियमः पारितः तथा संस्थानाय राष्ट्रीयमहत्त्वस्य स्वायत्त-संस्थानस्य मान्यता प्राप्ता। सा स्वयम् एम्स-संस्थानस्य प्रथमा अध्यक्षा अभवत् तथा १९६४ तमे वर्षे स्वमृत्युपर्यन्तं संस्थानस्य प्रशासनव्यवस्थां सुदृढां कृतवती।
अद्य सप्ततिवर्षाणाम् अनन्तरमपि एम्स-रोगिभ्यः आशायाः विश्वासस्य च केन्द्ररूपेण स्थितम् अस्ति। भारतस्य सर्वेभ्यः भागेभ्यः प्रतिदिनं शतशः रोगिणः तेषां सम्बन्धिनश्च अत्र आगच्छन्ति। तेषां मनसि विश्वासः भवति यत् ते स्वस्थाः भूत्वा गृहं प्रत्यागमिष्यन्ति। चिकित्सकाः, परिचारिकाः अन्ये च कर्मचारिणः प्रत्येकं रोगिणः चिकित्सायै सम्पूर्णं प्रयत्नं कुर्वन्ति। एम्स-संस्थाने समाजवादी-व्यवस्था दृश्यते। भिक्षुकः विशाल-सर्वकारीयाधिकारी च एकस्यामेव पङ्क्तौ तिष्ठतः। चिकित्सकाः कस्यचित् सामाजिकस्थितिं धनं वा दृष्ट्वा भेदं न कुर्वन्ति। बिहारस्य, पूर्वीउत्तरप्रदेशस्य, झारखण्डस्य च रोगिणां एम्स-प्रति विशेषः विश्वासः दृश्यते।
यदि एम्स राजकुमारी अमृतकौर इत्यस्याः विचारस्य परिणामः आसीत्, तर्हि प्रथमेन निदेशकेन डॉ. बी.बी. दीक्षितेन एतत् उत्कृष्टचिकित्सालयः चिकित्सा-महाविद्यालयश्च निर्मितः। सः महान् चिकित्सकः, अनुभवीशिक्षकः कुशलः प्रशासकश्च आसीत्। पुणेस्थितस्य बी.जे. चिकित्सामहाविद्यालयस्य पूर्वप्राचार्यः दीक्षितः नियुक्तिषु केवलं योग्यताम् आधारं कृतवान् तथा अनुसन्धानकार्यं प्रोत्साहितवान्। तेन राजनैतिकहस्तक्षेपः न भवेत् इति शर्तः स्थापितः। तस्य कार्यकाले अनेकाः उत्कृष्टाः प्राध्यापकाः संस्थानम् आगतवन्तः।
यदि एम्स-प्रति रोगिणां विश्वासः अस्ति, तर्हि तस्य श्रेयः अत्र कार्यरतभ्यः असंख्येभ्यः चिकित्सकेभ्यः अन्येभ्यः कर्मचारिभ्यश्च गच्छति। एम्स-संस्थानस्य राजेन्द्रप्रसादनेत्रचिकित्साकेन्द्रं गच्छतु। तत्र भारतस्य प्रथमस्य राष्ट्रपतेः डॉ. राजेन्द्रप्रसादस्य अर्धप्रतिमा स्थापिता अस्ति। अत्र मधुबनीतः जटिलां रेटिना-शल्यचिकित्सां प्राप्तुं आगतः सुरेन्द्रझा अवदत् यत् बिहारप्रदेशे अनुभवी रेटिनाचिकित्सकाः दुर्लभाः सन्ति, अतः अत्रैव आगन्तव्यम् भवति।
वस्तुतः एतत् अद्भुतं स्थानम् अस्ति। अत्रत्याः सर्वे चिकित्सकाः सेवाभावस्य उदाहरणानि सन्ति। एतैः शतशः शल्यक्रियाः कृताः तथा नेत्रविज्ञानक्षेत्रे अनेकानि शोधपत्राणि प्रकाशितानि। येषां चिकित्सकानां बहिरङ्गरोगीविभागस्य कार्यदिवसः भवति स्म, ते तस्मिन् दिने प्रायः त्रिंशत्-चत्वारिंशत् रोगिणः पश्यन्ति स्म। रोगिणं दृष्ट्वैव ते तस्य चिकित्सायाः क्रमं कथं भविष्यति इति सूचयन्ति स्म। यदा एम्स-संस्थाने शल्यक्रियाः भवन्ति, तदा ते एकस्मिन् दिने अनेकेषां रोगिणां शल्यक्रियाम् अपि कुर्वन्ति स्म। अत्रत्यैः नेत्रविशेषज्ञैः रेटिनासम्बद्धानां रोगाणां चिकित्सायै नूतनानां तकनीकानां उपचारपद्धतीनां च विकासे महत्त्वपूर्णं योगदानं कृतम् अस्ति। तेषु लेजरचिकित्सा, नेत्रान्तः औषधिप्रक्षेपणम्, शल्यक्रिया-पद्धतीनां सुधारः च अन्तर्भवन्ति। तेषां विशेषज्ञता विस्तृता अस्ति, यस्यां मोतियाबिन्दुः, काचबिन्दुः, रेटिनासम्बद्धाः रोगाः अन्ये च जटिलनेत्ररोगाः सम्मिलिताः सन्ति।
भारतीयचिकित्सासङ्घस्य पूर्वाध्यक्षः डॉ. विनय-अग्रवालः कथयति यत् एम्स्-संस्थानस्य स्वभावे सेवाभावः पूर्णतया समाहितः अस्ति। अत्र प्रतिवर्षं देशस्य सर्वेभ्यः भागेभ्यः प्रतिभाशालिनः छात्राः एम.बी.बी.एस., एम्.एस्. तथा एम.डी. इत्यादिषु पाठ्यक्रमेषु प्रवेशं प्राप्नुवन्ति तथा अग्रे देशस्य विदेशस्य च उत्कृष्टचिकित्सकाः भवन्ति। प्रसिद्धेषु नामसु डॉ. दीपकचोपड़ा, शिकागो-विश्व-विद्यालयस्य प्रो. विनयकुमारः, गङ्गाराम-चिकित्सालयस्य यकृत्प्रत्यारोपण-शल्यचिकित्सकः डॉ. अरविन्दरसिंहसोइनः, पूर्वनिदेशकः डॉ. रणदीपगुलेरियः, हृदयशल्यचिकित्सायां प्रसिद्धः डॉ. पी. वेणुगोपालः, कर्णनासिकाकण्ठविशेषज्ञः डॉ. प्रतीकशर्मा, मूत्ररोगविशेषज्ञः डॉ. राजीवसूदः च सन्ति। नेत्रविशेषज्ञाः डॉ. जीवनसिंहतितियालः, डॉ. प्रदीपवेङ्कटेशः तथा डॉ. तरुणदादाः विश्वस्य कुशलचिकित्सकेषु गण्यन्ते।
एम्स्-संस्थानस्य स्थापनायाः प्रायः दशवर्षाणाम् अनन्तरं १० मार्च १९६७ तमे वर्षे डॉ. राजेन्द्रप्रसाद-नेत्रविज्ञानकेन्द्रस्य स्थापना अभवत्। भारतस्य प्रथमस्य राष्ट्रपतेः नाम्ना स्थापितस्य अस्य केन्द्रस्य ध्येयवाक्यम् अस्ति— ‘तमसो मा ज्योतिर्गमय’। अस्य प्रथमः निदेशकः डॉ. एल.पी. अग्रवालः बोस्टननगरात् प्रत्यागतः आसीत्।
एम्स्-संस्थानस्य परितः प्रतिदिनं विंशतितः पञ्चविंशतिपर्यन्तं लघु-महत् अन्न-वितरणकेन्द्राणि भवन्ति। ब्रेडपकौडा, चायम्, अभ्यूषः, कढी-तण्डुलाः, छोले-तण्डुलाः इत्यादीनि खाद्यपदार्थाः निःशुल्कं वितीर्यन्ते। अधोमार्गे औषधिविक्रयणालयाः चतुर्विंशतिहोराः उद्घाटिताः भवन्ति। त्रिभिः विक्रेतृभिः, एकेन कोशाध्यक्षेण सहायक-कर्मचारिभिश्च युक्तेषु विक्रय-केन्द्रेषु अपि जनानां महान् सम्मर्दः भवति। आवश्यकं औषधं प्रायः सर्वदा प्राप्यते। प्रतिदिनस्य विक्रयः लक्षशः रूप्यकाणि भवति इति कथ्यते। बहिः चिकित्सां कुर्वन्तोऽपि जनाः प्रायः अत्रैव औषधानि क्रेतुम् आगच्छन्ति।
एम्स्-संस्थानस्य अद्यावधि यात्रा अत्यन्तं गौरवपूर्णा अभवत्। देशस्य अन्यैः सर्वकारीयैः निजीचिकित्सालयैश्च अस्मात् शिक्षितव्यम्। सर्वकारस्य दायित्वम् अस्ति यत् ग्रामेषु नगरेषु च स्थितानां चिकित्सालयानां स्तरम् उन्नतं कुर्यात्। निजीचिकित्सालयाः रोगिभ्यः अनावश्यक-परीक्षणानि कर्तुं बाध्यं न कुर्युः।
एम्स्-संस्थानेन देशस्य अनेकासु महतीषु सङ्कटावस्थास्वपि सेवायाः ध्वजः उन्नतः स्थापितः। ३१ अक्टूबर १९८४ तमे वर्षे यदा प्रधानमन्त्री इन्दिरागान्धी गुटिकाप्रहारेण आहताः, तदा तां शीघ्रम् अस्मिन्नेव चिकित्सालये आनीता। अत्रत्यैः चिकित्सकैः कर्मचारिभिश्च तस्याः प्राण-रक्षणाय सर्वशक्त्या प्रयत्नः कृतः। कोविड्-महामारिकालेऽपि एम्स-संस्थाने चिकित्सा-कार्यं क्षणमात्रमपि न अवरुद्धम्। सहस्रशः सङ्क्रमितरोगिणः अत्र चिकित्सां प्राप्तवन्तः। चिकित्सकाः, परिचारिकाः अन्ये च कर्मचारिणः स्वप्राणान् संकटे स्थापयित्वा सेवां निरन्तरं कृतवन्तः। प्राणवायोः, कृत्रिमश्वसनयन्त्राणां, अति-दक्षताविभागस्य च अभावेऽपि तैः रोगिणः कदापि निराशाः न कृताः।
एम्स तत् स्थानम् अस्ति यत्र कौशलं, सेवा, समानता च एकत्र मिलन्ति। राजकुमारी अमृतकौर इत्यस्याः शान्तसमाधेः आरभ्य चिकित्सालयस्य व्यस्तेषु परिसरात् बहिः स्थितस्य च जीवन्तस्य अधोमार्गपर्यन्तं कथा एका एव अस्ति—निष्ठया कृतस्य सत्कार्यस्य परिणामः सामान्यजनानां स्थायीविश्वासः भवति। एम्स तस्मिन्नेव विश्वासे प्रतिष्ठितम् अस्ति तथा जनसेवायां निरन्तरं संलग्नम् अस्ति।
(लेखकः वरिष्ठः पत्रकारः प्रसिद्धः स्तम्भलेखकश्च अस्ति।)
Hindusthan Samachar / Divya Ranjan