Enter your Email Address to subscribe to our newsletters


अयोध्या, 19 अगस्तमासः (हि.स.)।
श्रीरामचरितमानसं रचयित्वा भगवान् श्रीरामस्य पावनगाथां गृहं गृहं प्रापयितुं प्रयत्नं कृतवन्तं गोस्वामितुलसीदासं बुधवासरे श्रीरामजन्मभूमिपरिसरे अयोध्यायां तस्य प्रतिमायाः समक्षं श्रद्धापूर्वकं स्मृत्वा अर्चना कृता। श्रद्धालुसुविधाकेन्द्रस्य समीपे स्थापितस्य मानसप्रणेता सन्ततुलसीदासस्य प्रतिमामण्डपं अस्मिन् अवसरे आकर्षकरूपेण अलङ्कृतम्।
श्रीरामजन्मभूमितीर्थक्षेत्रस्य अन्तरिममहासचिवः कृष्णमोहनः, न्यासी महन्तदिनेंद्रदासमहाराजः, के.के.तिवारी इत्यादयः अर्चकैः सह सन्ततुलसीदासस्य प्रतिमायां माल्यार्पणं कृत्वा विधिवत् अर्चनां कृतवन्तः।
विदितमस्ति यत् श्रावणशुक्लसप्तम्याः दिवसे एव तुलसीदासेन देहत्यागः कृतः आसीत्। प्रसिद्धं दोहकम् अस्ति—“संवत् सोलह सौ अस्सी, असी गंगा के तीर।श्रावण शुक्ला सप्तमी, तुलसी तज्यो शरीर॥”--------
Hindusthan Samachar / Dheeraj Maithani