पवित्र भादो मासस्य प्रथम दिने मुख्यमंत्री अददात् असमवासिभ्यश्शुभकामनाः
गुवाहाटी, 19 अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा बुधवासरे पवित्रस्य भाद्रमासस्य प्रथमदिने राज्यवासिभ्यः हार्दिकशुभकामनाः अर्पितवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् पवित्रः भाद्रमासः भक्तेः, आध्यात
The Illustration shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 19 अगस्तमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा बुधवासरे पवित्रस्य भाद्रमासस्य प्रथमदिने राज्यवासिभ्यः हार्दिकशुभकामनाः अर्पितवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् पवित्रः भाद्रमासः भक्तेः, आध्यात्मिकतायाः भ्रातृत्वस्य च अद्वितीयं वातावरणं जनयति। हरिनाम्नः मधुरैः स्वरैः चतुर्दिशः गुंजायमानाः भवन्ति तथा जनानां मनांसि प्राणाश्च शान्त्या पवित्रतया च परिपूर्णाः भवन्ति।

सः अवदत् यत् अस्मिन्नेव पवित्रे मासे भगवान् श्रीकृष्णस्य जन्मोत्सवस्य महापुरुषगुरुजनानां तिथीनां च आयोजनं असमस्य सामाजिकजीवनम् अधिकं समृद्धं करोति। मुख्यमन्त्रिणा कामना कृता यत् भगवतः कृपया प्रत्येकस्य असमवासिनः जीवने शान्तिः समृद्धिः सुखं च आगच्छेत्।

------------

Hindusthan Samachar / Dheeraj Maithani