Enter your Email Address to subscribe to our newsletters

लखनऊ, 19 अगस्तमासः (हि.स.)।
बहुजनसमाजपार्टी इत्यस्याः राष्ट्रियाध्यक्षा मायावती सर्वाधिकविश्वसनीयाय पार्टीमहासचिवाय सतीशचन्द्रमिश्राय निर्वाचनायोगसम्बद्धकार्याणां दायित्वं समर्पितवती अस्ति। बहुजनसमाजपार्ट्याः दीर्घकालात् राष्ट्रियमहासचिवरूपेण कार्यरतः सतीशचन्द्रमिश्रः अधुना दलस्य विधिसम्बद्धकार्याणां तथा माध्यमसम्बद्धकार्याणां सह निर्वाचनायोगसम्बद्धानां कार्याणामपि महत्त्वपूर्णं दायित्वं निर्वक्ष्यति। तदतिरिक्तम् आगामिविधानसभानिर्वाचने रणनीतिनिर्माणे, निर्वाचनस्य सज्जतायां, प्रबन्धने तथा अन्येषु कार्येष्वपि तस्य महत्त्वपूर्णा भूमिका भविष्यति।
बसपाप्रमुखा मायावती बुधवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशितेन सन्देशेन उक्तवती यत् उत्तरप्रदेशे २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनस्य सज्जतां दृष्ट्वा बसपादलस्य प्रत्याशिनां चयनप्रक्रिया प्रचलति। एतद्विषये विपक्षिदलेषु पर्याप्ता चिन्ता वर्तते। सत्ताधारीभारतीयजनतापार्टीसहितेषु अन्येषु विपक्षिदलेष्वपि अधुना निरन्तरं परिवर्तनं स्वाभाविकमेव भविष्यति।
सा उक्तवती यत् बसपादलेन सर्वसमाजात् विशेषतः ब्राह्मणसमाजस्य जनान् अपि दलस्य प्रत्याशिरूपेण चयनं तदा आरब्धं यदा २००७ तमस्य वर्षस्य इव बसपायाः पूर्णबहुमतयुक्तं शासनं निर्मातुं सज्जता क्रियते। तदारभ्य विपक्षिदलेषु अस्य विषये चर्चा चिन्ता च उभे स्पष्टे स्तः। अतः विपक्षिदलानां विविधेषु उपायेषु बहुजनसमाजस्य जनैः निरन्तरं सजगैः सतर्कैश्च भवितुं आवश्यकता अस्ति।
Hindusthan Samachar / Dheeraj Maithani