केंद्रीय मंत्रिभ्यः प्रधानमंत्रिणःपरामर्शः, इंस्टाग्राममध्ये वर्धनीया सक्रियता, युवभिस्सह साधनीयं संवादे बलम्
नव दिल्ली, 19 अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे आयोजिते मन्त्रिमण्डलस्य उपवेशने केन्द्रीयमन्त्रिभ्यः सामाजिकमाध्यमेषु सक्रियतां वर्धयितुं परामर्शः दत्तः। विशेषतः इन्स्टाग्राम् इत्यादिषु मञ्चेषु अधिकां उपस्थितिं प्रदर्शयित
प्रधानमंत्री नरेन्द्र मोदी ( फाइल फोटो)


नव दिल्ली, 19 अगस्तमासः (हि.स.)।

प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे आयोजिते मन्त्रिमण्डलस्य उपवेशने केन्द्रीयमन्त्रिभ्यः सामाजिकमाध्यमेषु सक्रियतां वर्धयितुं परामर्शः दत्तः। विशेषतः इन्स्टाग्राम् इत्यादिषु मञ्चेषु अधिकां उपस्थितिं प्रदर्शयितुं युवजनैः सह प्रत्यक्षसंवादं स्थापयितुं च बलं दत्तम्।

उपवेशने मन्त्रिभ्यः केवलम् ‘एक्स्’ इति सामाजिकमाध्यमपर्यन्तं सीमिताः न भूत्वा इन्स्टाग्राम् इत्यत्र स्वस्य प्रसारं वर्धयितुं तथा च शासनस्य योजनाः, उपलब्धयः, जनहितसम्बद्धानि कार्याणि च रील्स् इत्यादीनां सृजनात्मकमाध्यमानां द्वारा युवजनेभ्यः प्रापयितुं परामर्शः दत्तः। सूत्राणाम् अनुसारं प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां बुधवासरे आयोजिते मन्त्रिमण्डलस्य उपवेशने मन्त्रिणां सामाजिकमाध्यमसक्रियतायाः विषये विस्तृतं मूल्याङ्कनं प्रस्तुतम्। मन्त्रिणः सामाजिकमाध्यमेषु तेषां गतिविधीनाम् आधारेण क्रमाङ्किताः। विशेषता एषा आसीत् यत् मन्त्रिणां मूल्याङ्कनं केवलं परस्परं तुलनया न कृतम्, अपितु सत्तारूढदलस्य विपक्षस्य च शीर्षनेतॄणां सामाजिकमाध्यमेषु प्रसारस्य प्रभावस्य च तुलनया अपि कृतम्।

इदं मूल्याङ्कनं २०२६ तमवर्षस्य मईमासस्य प्रथमदिनाङ्कतः अगस्तमासस्य पञ्चदशदिनाङ्कपर्यन्तं इन्स्टाग्राम्, एक्स्, फेसबुक् इत्येतेषु सामाजिकमाध्यमेषु नेतॄणां गतिविधीनाम् आधारेण कृतम्। अस्मिन् प्रकाशनानां सङ्ख्या, समग्रः औसतश्च सहभागः, पसन्दचिह्नानि, अनुयायिनां सङ्ख्या इत्यादयः मानदण्डाः सम्मिलिताः आसन्।

अस्मिन् मूल्याङ्कने प्रधानमन्त्री नरेन्द्रमोदी प्रथमस्थाने स्थितवान्। प्रधानमन्त्री मोदी स्वयं सामाजिकमाध्यमेषु अत्यन्तं सक्रियः अस्ति तथा डिजिटलमञ्चानां माध्यमेन जनैः सह संवादं निरन्तरं कुर्वन् अस्ति। अधुना शासनस्य प्रयासः अस्ति यत् मन्त्रिणां डिजिटलोपस्थितिं अधिकं प्रभावशालीं कृत्वा विशेषतः युवावर्गं प्रति शासकीययोजनानां नीतिनां च सूचना प्रापयितुं शक्येत।

---------------

Hindusthan Samachar / Dheeraj Maithani