मन्त्रीमण्डलम् - पश्चिमबङ्गाल-ओडिशा-तमिलनाडु-आन्ध्रप्रदेशेषु अष्टसु जनपदेषु विस्तृतानां चतुर्णां रेलपरियोजनानां अनुमोदनम्
नवदिल्ली, १९ अगस्तमासः (हि.स.)। केन्द्रीयमन्त्रीमण्डलेन पश्चिमबङ्गाले, ओडिशायां, तमिलनाडौ तथा आन्ध्रप्रदेशे च अष्टसु जनपदेषु विस्तृतानां चतुर्णां बहुमार्गीकरणपरियोजनानां अनुमोदनं कृतम्। एताभिः परियोजनाभिः भारतीय-रेलजालस्य प्रायः ४१० किलोमीटरमितः वि
रेल ट्रेन का प्रतिनिधि चित्र


नवदिल्ली, १९ अगस्तमासः (हि.स.)। केन्द्रीयमन्त्रीमण्डलेन पश्चिमबङ्गाले, ओडिशायां, तमिलनाडौ तथा आन्ध्रप्रदेशे च अष्टसु जनपदेषु विस्तृतानां चतुर्णां बहुमार्गीकरणपरियोजनानां अनुमोदनं कृतम्। एताभिः परियोजनाभिः भारतीय-रेलजालस्य प्रायः ४१० किलोमीटरमितः विस्तारः भविष्यति। एतासां परियोजनानां आहत्यानुमानित-व्ययः ९४५० कोटिरूप्यकाणि अस्ति। एताः परियोजनाः २०३०-३१ तमवर्षपर्यन्तं पूर्णाः कर्तुं लक्ष्यं निर्धारितम् अस्ति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां मन्त्रीमण्डलस्य आर्थिककार्यसमित्याः अद्य रेलमन्त्रालयस्य चतुर्णां परियोजनानां अनुमोदनं कृतम्। प्रस्ताविताभिः बहुमार्गी-करणपरियोजनाभिः प्रायः ६४४८ ग्रामाणां सम्पर्कव्यवस्थायां सुधारः भविष्यति। एतेषु ग्रामेषु प्रायः षष्टिलक्षं जनाः निवसन्ति।

नवीनाः रेलमार्गाः एवं सन्ति - पश्चिमबङ्गाले ओडिशायां च खड़गपुर-भद्रक-रानीताल-चतुर्थरेलमार्गः, यस्य दीर्घता १७३ किलोमीटरमिता अस्ति; ओडिशायां भद्रक-हरिदासपुर-चतुर्थ-रेलमार्गः, यस्य दीर्घता ७५ किलोमीटरमिता अस्ति; आन्ध्रप्रदेशे तमिलनाडौ च गुम्मिडिपुण्डी-गुदुर-तृतीयः चतुर्थश्च रेलमार्गः, यस्य दीर्घता ९० किलोमीटरमिता अस्ति; तथा ओडिशायां कटक-पारादीप-बड़ाबान्धा-तृतीयः चतुर्थश्च रेलमार्गः, यस्य दीर्घता ७२ किलोमीटरमिता अस्ति।

केन्द्रीयमन्त्री अश्विनीवैष्णवः बुधवासरे राष्ट्रीयमाध्यमकेन्द्रे आयोजितायां पत्र-कारवार्तायां एतस्याः परियोजनायाः विषये सूचनां दत्तवान्। सः अवदत् यत् प्रस्तावितया क्षमतावर्धनेन देशस्य अनेकेषां प्रमुखपर्यटनस्थलानां रेल-सम्पर्कव्यवस्थायां सुधारः भविष्यति। प्रस्ताविताः परियोजनाः कोयला, लौह-अयस्कम्, सिमेण्ट्, लौहं तथा इस्पात्, पात्राधारितवस्तूनि, वाहनानि, धान्यानि इत्यादीनां वस्तूनां परिवहनाय अत्यावश्यकाः मार्गाः सन्ति। क्षमतावर्धन-कार्येण प्रतिवर्षं ७६ मिलियनटनमितायाः अतिरिक्तमालवहनक्षमतायाः प्राप्तिः भविष्यति।

सः अवदत् यत् रेलयानं पर्यावरणानुकूलं ऊर्जादक्षं च परिवहनसाधनम् अस्ति। अतः जलवायुसम्बद्धलक्ष्याणां प्राप्तौ देशस्य रसदव्ययं न्यूनीकर्तुं च रेलव्यवस्था सहायकाः भविष्यति। एतदतिरिक्तं तैलस्य आयातं प्रायः १३ कोटिलिटरमितं न्यूनीकरिष्यति तथा कार्बन-डाइऑक्साइड्-उत्सर्जनं प्रायः ६५ कोटि-किलोग्राममितं न्यूनीभविष्यति। एतत् प्रायः २६ कोटिवृक्षाणां रोपणेन तुल्यम् अस्ति।

रेलसम्पर्कव्यवस्थायाः सुधारस्य लाभं प्राप्तुं शक्नुवन्ति यानि प्रमुखानि पर्यटनस्थलानि सन्ति, तेषां नामानि निम्नलिखितानि सन्ति— कुलडीहा वन्यजीवाभयारण्यम्, भितरकनिका राष्ट्रीय-उद्यानम्, माता भद्रकालीमन्दिरम्, माता धमराईमन्दिरम्, पञ्चलिङ्गेश्वर-मन्दिरम्, तलसारी-उदयपुरसमुद्रतटः, चन्दीपुरसमुद्रतटः, पुलिकट्-सरोवरम्, नेलपट्टु-पक्षी-अभयारण्यम्, भगवान् वीरराघव-पेरुमल-मन्दिरम्, गदा-कुजङ्ग-जगन्नाथमन्दिरम्, सरला-मन्दिरम्, धबलेश्वर-मन्दिरम् तथा ललितगिरिः, यत् एकं बौद्धधार्मिकस्थलम् अस्ति।

Hindusthan Samachar / Divya Ranjan