Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 अगस्तमासः (हि.स.)।
केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन राष्ट्रियकुष्ठरोगोन्मूलनकार्यक्रमस्य अन्तर्गतं केन्द्रीयकुष्ठप्रभागस्य विशेषकार्यशालायाः शुभारम्भः कृतः। इन्दौरनगरे आयोजितायाः द्विदिवसीयायाः अस्याः कार्यशालायाः उद्देश्यं कुष्ठरोगस्य निवारणाय कार्यक्रमस्य कार्यान्वयनं सुदृढं कर्तुं, स्वास्थ्याधिकारिणां तकनीकीक्षमतां वर्धयितुं तथा संक्रमणस्य प्रसारं निवारयितुं अन्तिमचरणस्य कार्यवाहीं तीव्रां कर्तुम् अस्ति।
कार्यशालायां सप्ततितः अधिकाः प्रतिभागिनः भागं गृहीतवन्तः। तेषु स्वास्थ्यमहानिदेशालयस्य अतिरिक्तमहानिदेशकः, उपमहानिदेशकः कुष्ठरोगः, केन्द्रीयकुष्ठप्रभागस्य अधिकारिणः, राज्यकुष्ठाधिकारिणः, मध्यप्रदेशस्य सर्वेषां एकपञ्चाशत् जनपदानां जिलाकुष्ठाधिकारिणः, मुख्यचिकित्साधिकारिणः स्वास्थ्याधिकारिणश्च, जिलापरामर्शदातारः तथा तकनीकीसहयोगिसंस्थानां प्रतिनिधयः सम्मिलिताः आसन्।
स्वास्थ्यमन्त्रालयेन प्रकाशितायां विज्ञप्तौ उक्तं यत् कार्यशालायां कुष्ठरोगस्य वर्तमानस्थितेः कार्यक्रमस्य च कार्यप्रदर्शनस्य समीक्षा कृता। तेन सह क्षेत्रस्तरे सम्मुखीभूयमानानां चुनौतीनां प्रभावीोपायानां च विषये चर्चा कृता। विशेषरूपेण रोगस्य शीघ्रपहिचाने, सम्पर्के आगतानां जनानां परीक्षणे, समये उपचारस्य प्रारम्भे, उपचारस्य पूर्णतायां, दिव्याङ्गतायाः निवारणे तथा निगरानीव्यवस्थायाः सुदृढीकरणे च बलं दत्तम्।
डॉ. सुनील वी. गिट्टे, उपमहानिदेशकः कुष्ठरोगः, कार्यक्रमसम्बद्धानां दत्तांशानां उत्तमप्रयोगे बलं दत्त्वा उक्तवान् यत् एतेषां माध्यमेन तेषां जनपदानां क्षेत्राणां च पहिचानं कर्तव्या, यत्र विशेषनिगरानी तथा लक्षितहस्तक्षेपस्य आवश्यकता अस्ति। सः कुष्ठरोगस्य प्रसारदरं प्रतिदशसहस्रजनसङ्ख्यायां एकात् न्यूनं कर्तुं तथा शीघ्रपरिचयं, सम्पर्कपरीक्षणं, समये उपचारं, दिव्याङ्गतानिवारणं च सुदृढं कर्तुं आवश्यकतायाः विषये बलं दत्तवान्।
विश्वस्वास्थ्यसङ्घटनस्य राष्ट्रियकार्यक्रमाधिकारिणी डॉ. रश्मि शुक्ला एलसीडीसी इत्यस्य गुणवत्तायाः परिणामानां च सुधारविषये तकनीकीसूचनाः दत्तवती। अलीराजपुरम्, अनूपपुरम्, बड़वानी, बुरहानपुरम्, धारः इत्यादिभिः जनपदैः कार्यक्रमस्य प्रगतिः, स्थानीयचुनौतयः, प्राथमिकताक्षेत्राणि तथा रोगस्य शीघ्रपहिचानं उपचारं च सुदृढं कर्तुं क्रियमाणानां प्रयासानां विषये सूचना प्रदत्ता।
अनेन अनुभवानां परस्परविनिमयेन विभिन्नजनपदानां परस्परं शिक्षितुं तथा सफलोपायान् अन्येषु क्षेत्रेषु कार्यान्वितुम् अवसरः प्राप्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani