Enter your Email Address to subscribe to our newsletters

रायपुरम्, 19 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे राजधानीरायपुरनगरे आयोजितेषु विभिन्नेषु कार्यक्रमेषु सम्मिलितो भविष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:१५ वादने ओमायागार्डन् इत्यत्र प्राप्स्यति, यत्र सः जलसंसाधनविभागेन आयोजिते स्रोत-महोत्सवे सम्मिलितो भविष्यति। स्रोत-महोत्सवस्य कार्यक्रमः अपराह्णस्य १ वादनपर्यन्तं प्रचलिष्यति। ततः मुख्यमन्त्री मन्त्रालयं गमिष्यति तथा सायं ५ वादनपर्यन्तं कार्यालयीयकार्याणि निर्वक्ष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायं ६ वादने मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति।