प्रधानमंत्रिणः निःशुल्कम् अनुशिक्षणप्रयत्नम् शिक्षा मंत्री अकरोत् उपवेशनम्
नव दिल्ली, 19 अगस्तमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री खाद्योपभोक्तृसार्वजनिकवितरणमन्त्री च प्रह्लादजोशिना प्रतियोगितापरीक्षाणां सिद्धतां कुर्वद्भ्यः छात्रेभ्यः प्रधानमन्त्रिणः उपक्रमस्य अन्तर्गतं निःशुल्कं ऑनलाइनप्रशिक्षणं प्रदातुं बुधवासरे शिक
नई दिल्ली स्थित शिक्षा मंत्रालय में अधिकारियों के साथ बैठक करते शिक्षा मंत्री प्रह्लाद जोशी।


नव दिल्ली, 19 अगस्तमासः (हि.स.)।

केन्द्रीयशिक्षामन्त्री खाद्योपभोक्तृसार्वजनिकवितरणमन्त्री च प्रह्लादजोशिना प्रतियोगितापरीक्षाणां सिद्धतां कुर्वद्भ्यः छात्रेभ्यः प्रधानमन्त्रिणः उपक्रमस्य अन्तर्गतं निःशुल्कं ऑनलाइनप्रशिक्षणं प्रदातुं बुधवासरे शिक्षाविभागस्य अधिकारिभिः सह उपवेशनं कृतम्।

शिक्षामन्त्री जोशी सामाजिकमाध्यममञ्चे एक्स् इत्यत्र उक्तवान् यत् उच्चशिक्षाविभागस्य अधिकारिभिः सह आयोजितस्य उपवेशनस्य मुख्योद्देश्यं सुदृढं राष्ट्रियमञ्चं निर्मातुम् अस्ति, येन देशस्य सर्वेभ्यः छात्रेभ्यः उच्चगुणवत्तायुक्ता अध्ययनसामग्री, विशेषज्ञानां मार्गदर्शनं, सुव्यवस्थिता परीक्षासिद्धता च उपलब्धा भवेत्।

प्रधानमन्त्रिणा स्वतन्त्रतादिवसे लालदुर्गस्य प्राचीरतः स्वीयसम्बोधने अस्याः निःशुल्कस्य ऑनलाइनप्रशिक्षणसुविधायाः प्रदाने घोषणा कृता आसीत्। प्रधानमन्त्री उक्तवान् आसीत्, “प्रशिक्षणकक्षाः निर्धनमध्यमवर्गीयपरिवाराणां कृते भाररूपाः सन्ति। वयं विविधासां परीक्षाणां कृते निःशुल्कं ऑनलाइनप्रशिक्षणं प्रदास्यामः।”

उपवेशनस्य उद्देश्यं देशस्य सर्वेभ्यः छात्रेभ्यः गुणवत्तापूर्णशैक्षणिकसामग्रीं, विशेषज्ञमार्गदर्शनं, सुव्यवस्थितां परीक्षासिद्धतासुविधां च प्रापयितुं सुदृढं राष्ट्रियमञ्चं निर्मातुम् अस्ति। अस्य माध्यमेन प्रतियोगितापरीक्षाणां सिद्धतां कुर्वतां युवानां कृते विना कस्यापि आर्थिकबाधया उत्तमाध्ययनसंसाधनानि उपलब्धानि कर्तुं बलं दास्यते।

उपवेशने अधिकारिभिः सह अस्याः पहलस्य प्रभावपूर्णव्यापकयोः कार्यान्वयनाय आवश्यकानि पदानि स्वीकर्तुं तथा छात्राणां आवश्यकतानाम् अनुरूपां ऑनलाइनशिक्षाव्यवस्थां सुदृढां कर्तुं च चर्चा कृता। सर्वकारस्य लक्ष्यं प्रौद्योगिक्याः माध्यमेन देशस्य अधिकाधिकेभ्यः युवभ्यः प्रतियोगितापरीक्षाणां सिद्धतायै समानावसरं प्रदातुम् अस्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani