Enter your Email Address to subscribe to our newsletters

जयपुरम्, 19 अगस्तमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मणः नेतृत्वे राज्यसर्वकारेण विद्यालयेषु शिक्षणव्यवस्थां सुदृढां कर्तुं विद्यार्थिभ्यः गुणवत्तापूर्णशिक्षां प्रदातुं च निरन्तरं कार्यं क्रियते। रोजगारसृजनस्य प्रतिबद्धतायाः अन्तर्गतं यावत्पर्यन्तं एकलक्षोननवतिसहस्राधिकेषु पदेषु नियुक्तयः प्रदत्ताः सन्ति, तेषु अष्टचत्वारिंशत्सहस्रचतुःशतपञ्चषष्टिः नियुक्तयः शिक्षाविभागे प्रदत्ताः सन्ति। अपरत्र विभागसम्बद्धेषु एकोनषष्टिसहस्रपञ्चशतसप्ताशीतिः पदेषु नियुक्तिप्रक्रिया प्रचलति।
मुख्यमन्त्रिणः अभिप्रायानुसारं राज्यसर्वकारस्य उद्देश्यं यत् नियुक्तिप्रक्रियायाः पूर्णतां यावत् आवश्यकशैक्षणिकव्यवस्था निर्बाधरूपेण सञ्चालिता भवेत् तथा विद्यार्थिनां अध्ययनं प्रभावितं न भवेत्। एतत् दृष्ट्वा तेषु रिक्तपदेषु, येषां नियुक्तिप्रक्रियायाः पूर्णतायै अथवा अन्येषां कारणानां कृते अधिकसमयः सम्भाव्यते, तेषु पदेषु विद्याबलयोजनायाः माध्यमेन आवश्यकतानुसारं विषयविशेषज्ञान् अनुभवीजनांश्च अतिथिशिक्षकरूपेण नियुक्ताः करिष्यन्ते। अस्य कृते मुख्यसचिवेन प्रदत्तानां नवीननिर्देशानाम् अनुसारं जिलाधिकारिणः जिलाशिक्षाधिकारिणश्च अधिकृताः सन्ति।
उल्लेखनीयं यत् वर्तमानसर्वकारस्य सार्धद्विवर्षीयकाले एव विद्यालयानां मरम्मतायै, नवीनभवनानां कक्षाकक्षाणां च निर्माणाय आधारभूतकार्येषु द्विसहस्रसप्तशतत्रयोविंशतिकोटिरुप्यकाणि व्ययितानि सन्ति। अपरत्र पूर्ववर्तिसर्वकारेण स्वस्य पञ्चवर्षीयकार्यकाले एतेषु कार्येषु द्विसहस्रद्विशतसप्तविंशतिकोटिरुप्यकाण्येव व्ययितानि आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani