Enter your Email Address to subscribe to our newsletters

काठमाण्डू, १९ अगस्तमासः (हि.स.)। भारतीयस्थलसेनाप्रमुखः जनरल-धीरजसेठः नेपालदेशे निवसतां पूर्व-भारतीयसैनिकानां तेषां परिवाराणां च कल्याणाय, स्वास्थ्यसेवासु सुविधासु च भारतीयसेनया सर्वसम्भवाः प्रयत्नाः निरन्तरं क्रियन्ते इति प्रतिबद्धतां प्रकटितवान्।
जनरल् सेठः बुधवासरे पोखरायाम् आयोजितं पेन्शन-शिबिरं सम्बोधयन् अवदत् यत् पूर्वसैनिकाः भारत-नेपालयोः सम्बन्धस्य जीवन्तप्रतिनिधयः सन्ति तथा भारतीयसेनायां सेवां कृतवतां गोरखासैनिकानां योगदानम् अत्यन्तं महत्त्वपूर्णम् अस्ति। पूर्वसैनिकानां हितं कल्याणं च भारतीयसेनायाः दायित्वम् अस्ति।
सः अवदत्— ‘‘युष्माकं हिताय, कल्याणाय, सुविधाभ्यः च यत्किमपि सम्भवं भविष्यति, तत् वयं पूर्णनिष्ठया समर्पणभावेन च करिष्यामः। भवन्तः कदापि स्वं एकाकिनं मा मन्यध्वम्। भारतीयसेना सर्वदा युष्माभिः सह स्थास्यति।’’
जनरल-सेठः अवदत् यत् पोखरास्थितस्य ‘पूर्वसैनिकानां योगदानात्मक-स्वास्थ्य-योजना’ चिकित्सालयस्य कृते अतिरिक्तस्वास्थ्योपकरणानि उपलब्धानि कर्तुं तथा तं आधुनिकसुविधाभिः सम्पन्नं कर्तुं प्रयत्नाः करिष्यन्ते।
सः सोनौलीतः गोरखपुरपर्यन्तं बससेवायाः दीर्घकालतः प्रचलितायाः याचनायाः विषये अपि गम्भीरतया विचारः क्रियते इति सूचितवान्। तस्य अनुसारं एषा सुविधा उपलब्धा भवति चेत् पूर्वसैनिकानां तेषां परिवाराणां च ई.सी.एच.एस.-सहितानाम् अन्यासां स्वास्थ्यसेवानां लाभं प्राप्तुं सुलभता भविष्यति।
जनरल-सेठः अवदत् यत् भारतस्य ई.सी.एच.एस.-योजना २०१४ तमवर्षात् नेपालदेशे प्रवर्तते। अस्याः योजनायाः माध्यमेन नेपालस्य भारतस्य च विभिन्नेषु चिकित्सालयेषु पूर्वसैनिकेभ्यः तेषां परिवारजनेभ्यश्च चिकित्सासुविधा प्रदीयते। सः अवदत् यत् ई.सी.एच.एस.-सम्बद्धानां चिकित्सालयानां संख्या वर्धयितुं प्रयत्नाः निरन्तरं प्रचलन्ति।
पश्चिमनेपालस्य पूर्वसैनिकानां कृते कोहलपुरे नूतनस्य ई.सी.एच.एस.-चिकित्सालयस्य सञ्चालनस्य उल्लेखं कुर्वन् जनरलसेठः विश्वासं प्रकटितवान् यत् अनेन पश्चिमक्षेत्रस्य पूर्वसैनिकेभ्यः तेषां परिवारजनेभ्यश्च महती सुविधा भविष्यति।
जनरलसेठः अवदत् यत् विभिन्नैः जनपदसैनिकमण्डलैः पूर्वसैनिकानां परिवाराणां कृते सङ्गणकशिक्षणम्, सौन्दर्यविशेषज्ञप्रशिक्षणम्, परिधानरचना-प्रशिक्षणम् इत्यादयः व्यावसायिक-प्रशिक्षणकार्यक्रमाः अपि सञ्चाल्यन्ते। सिक्किमस्थितेन मेधावी-स्किल्स-विश्वविद्यालयेन सह सन्धिं कृत्वा एतेषां प्रशिक्षणानां प्रमाणपत्राणि राष्ट्रीयस्तरे अन्ताराष्ट्रियस्तरे च मान्यतां प्राप्तवन्ति।
भारत-नेपालयोः सम्बन्धः शताब्दिभ्यः पुरातनः इति कथयन् सः अवदत् यत् उभयोः देशयोः सम्बन्धः केवलं पारस्परिक्प्रति-वेशीदेशयोः सम्बन्धः नास्ति, अपितु संस्कृत्या, परम्परया, धार्मिकश्रद्धया, सहभाग-इतिहासेन च सम्बद्धः अस्ति। भारतीयनेपालीसेनयोः मध्ये विद्यमानः विशेषसम्बन्धः अपि अस्य ऐतिहासिकपरम्परायाः महत्त्वपूर्णः भागः अस्ति।
गोरखासैनिकानां वीरतायाः, शौर्यस्य, निष्ठायाः बलिदानस्य च प्रशंसां कुर्वन् सः अवदत् यत् गोरखासैनिकैः प्रत्येकस्मिन् युद्धे प्रत्येकं समस्यां च अद्भुतं साहसं प्रदर्शितम् अस्ति।
जनरलसेठः भारतीयसेनायाः पञ्च प्राथमिकतानाम्—सतर्कता एवं तत्परता, नवाचारः एवं परिवर्तनम्, संयुक्तता, आत्मनिर्भरता तथा योद्धा—इत्येषाम् अपि उल्लेखं कृतवान्। सः अवदत् यत् भारतीयसेनायाः कनिष्ठतमसैनिकात् आरभ्य वरिष्ठतमपूर्वसैनिकपर्यन्तं सर्वे तस्य कृते योद्धारः सन्ति तथा भारतीयसेना तेषु गर्वं करोति।
पूर्वसैनिकानां योगदानं प्रति सम्मानं प्रकटयन् सः भविष्येऽपि तेषां कल्याणाय सुविधाभ्यश्च निरन्तरं सहयोगं प्रदास्यते इति आश्वासनं दत्तवान्। कार्यक्रमस्य अन्ते सः पूर्वसैनिकानां तेषां परिवारान् च प्रति कृतज्ञतां प्रकटयन् स्वसम्बोधनस्य समापनं ‘‘जय हिन्द्, जय नेपाल, जय भूपू’’ इति घोषैः कृतवान्।
Hindusthan Samachar / Divya Ranjan