केन्द्रीयमन्त्री जे.पी.नड्डा इत्यस्मै नवदिल्ली-स्थितात् एम्स्-चिकित्सालयात् मुक्ति:
नवदिल्ली, १९ अगस्तमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी. नड्डा सफलायाः एन्जियोप्लास्टी-चिकित्सायाः अनन्तरं बुधवासरे नव-दिल्ली-स्थितेन अखिलभारतीय-आयु-र्विज्ञान-संस्थानात् मुक्ति:। चिकित्सकैः तस्य स्वास्थ्यावस्था पूर्णतया स्थिरा इ
केंद्रीय मंत्री जेपी नड्डा


नवदिल्ली, १९ अगस्तमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी. नड्डा सफलायाः एन्जियोप्लास्टी-चिकित्सायाः अनन्तरं बुधवासरे नव-दिल्ली-स्थितेन अखिलभारतीय-आयु-र्विज्ञान-संस्थानात् मुक्ति:। चिकित्सकैः तस्य स्वास्थ्यावस्था पूर्णतया स्थिरा इति कथयित्वा तं गृहं गन्तुं अनुमतिः प्रदत्ता।

नड्डा अगस्तमासस्य १३ दिनाङ्के वक्षसि अस्वस्थतायाः अनुभूतेः अनन्तरं एम्स-चिकित्सालये प्रवेशितः आसीत्। परीक्षणस्य समये तस्य कोरोनरी-एन्जियोग्राफी कृता, ततः अगस्तमासस्य १७ दिनाङ्के तस्य सफलतया एन्जियोप्लास्टी-चिकित्सा कृता।

चिकित्सालये चिकित्सकीय-निरीक्षणस्य अनन्तरं तस्य स्वास्थ्यावस्थायां निरन्तरं सुधारः अभवत्। अतः चिकित्सकैः तं चिकित्सालयात् विसर्जितम्।

हिन्दुस्थान समाचार / Divya Ranjan