रीवायाः संभागीय-आई.टी.आई.-संस्थाने अद्य रोजगार-मेलापकस्य आयोजनम्
रीवा, १९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य रीवानगरे युवा-सङ्गम-कार्यक्रमस्य अन्तर्गतं संभागीय-आई.आई.टी.-संस्थाने बुधवासरे प्रातः ११ वादनतः अपराह्णे २ वादनपर्यन्तं बृहद् रोजगार-मेलापकस्य आयोजनं क्रियमाणम् अस्ति। अस्मिन् मेलापके जनपदस्य बेरोजगाराः युव
रोजगार मेला (प्रतीकात्मक)


रीवा, १९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य रीवानगरे युवा-सङ्गम-कार्यक्रमस्य अन्तर्गतं संभागीय-आई.आई.टी.-संस्थाने बुधवासरे प्रातः ११ वादनतः अपराह्णे २ वादनपर्यन्तं बृहद् रोजगार-मेलापकस्य आयोजनं क्रियमाणम् अस्ति। अस्मिन् मेलापके जनपदस्य बेरोजगाराः युवकाः युवत्यश्च विभिन्नाभिः निर्माणीभिः रोजगारस्य अवसरान् प्राप्स्यन्ति।

रोजगार-उपसञ्चालकेन अनिलदुबे-महोदयेन उक्तं यत् रोजगार-मेलापके २४ निर्माण्य: यूनां चयनं करिष्यन्ति। मेलापके भागं ग्रहीतुं विभिन्ननिर्माणिषु युवकानां युवतीनां च आयुःसीमा शैक्षणिकयोग्यता च पृथक्-पृथक् निर्धारिताऽस्ति। अष्टम्याः, दशम्याः, द्वादश्याः कक्षायाः उत्तीर्णाः, स्नातकाः, सर्वेषु आई.टी.आई.-प्रशिक्षणव्यवसायेषु उत्तीर्णाः तथा डिप्लोमाधारकाः युवकाः युवत्यश्च मेलापके भागं ग्रहीतुं शक्नुवन्ति। कम्पनीभिः वेतनं भत्ताश्च ७ सहस्ररूप्यकेभ्यः ३५ सहस्ररूप्यकपर्यन्तं निर्धारिताः सन्ति। युवभिः स्वसह समग्र-आई.डी., मूलाङ्कसूच्याः तथा निवासप्रमाणपत्रस्य छायाप्रतिः, आधारपत्रं वा मतदातृ-परिचयपत्रम्, रोजगारकार्यालयस्य जीवितपञ्जीकरणं तथा नवीनतमौ द्वौ पासपोर्ट्-परिमाणके छायाचित्रे च आनयितव्ये भविष्यतः।

तेन उक्तं यत् रोजगार-मेलापके टाटा-मोटर्स्-अहमदाबाद-गुजरात, एम.आर.एफ.-टायर्स्-गुजरात, प्रगतिशील-बायोटेक् प्रा. लि.-रीवा, यूनो-मिण्डा-ई.वी.-सिस्टम-गुरुग्राम-हरियाणा, आयसर-ट्रक्-एण्ड्-बस्-पीथमपुर-धार-इन्दौर तथा शक्ति-पम्प-इण्डिया-लि.-पीथमपुर इत्यादय: संस्था: सम्मिलिता: भविष्यन्ति।

रोजगार-मेलापके सी.आई.आई.-एम.सी.सी.-इन्दौर, प्रभा-बायोप्लान्ट्-इन्श्योरेन्स्-रीवा, एस्क्लेपियस्-वेलनेस-प्रा. लि.-रीवा, लावा-इण्टरनेशनल्-मोबाइल्-मैन्युफैक्चरिङ्ग्-नोएडा, बंसल-टी.एम.टी.-प्रा. लि.-भोपाल, वेयरहाउस-प्रा. लि.-फ्लिपकार्ट्-स्विगी, याजाकी-इण्डिया-प्रा. लि.-अहमदाबाद इत्यादीन्य: निर्माण्य: अपि सम्मिलिताः भविष्यन्ति।

तद्वत् अपोलो-टायर्स्-प्रा. लि.-बडोदरा-गुजरात, हायली-प्रा. लि.-रञ्जनगाँव-पुणे, श्रीराम-पिस्टन-एवं-रिङ्ग्-लि.-पथरेडी-राजस्थान, प्लेटिनम-सोल्यूशन-प्रा. लि.-गुजरात, लोट्टे-इण्डिया-कॉर्पोरेशन-प्रा. लि.-रोहतक-हरियाणा, आई.पी.एस.-ग्रुप, स्किल-विजन-इरावत-फार्मास्यूटिकल्-पीथमपुर, वी.ई.-कॉमर्शियल्-व्हीकल्स्-पीथमपुर-इन्दौर, टी.एस.पी.एल.-ग्रुप-पुणे तथा एच.डी.एफ.सी.-लाइफ्-इन्श्योरेन्स्-रीवा इत्यादिषु निर्माणिषु अपि रोजगारस्य अवसराः उपलब्धाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan