Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे नित्यक्रमानुसारं प्रातःकाले एक्स्-हैण्डल इत्यत्र सुभाषितं विलिख्य जनान् परोपकारिणः भवितुं समाहूतवान्। सः अवदत् यत् अन्येषां प्राणिनां स्वस्य पूर्णसामर्थ्येन साहाय्यं कृत्वा जीवनस्य पूर्णसार्थकता सिद्धयितुं शक्यते।
इदं सुभाषितम् अर्थात् संस्कृतश्लोकः एवं वर्तते— “एतज्जन्मसाफल्यं देहिनामिह देहिषु।प्राणैरर्थैर्यया वाचा श्रेय एवाचरेत्सदा॥” इति।
अयं श्लोकः श्रीमद्भागवत-महापुराणस्य दशमस्कन्धस्य द्वाविंशतितमाध्यायस्य पञ्चत्रिंशत्तमात् श्लोकात् उद्धृतः अस्ति। अस्मिन् श्लोके मनुष्यजन्मनः सफलतायाः मन्त्रः निहितः अस्ति।
प्रधानमन्त्रिणः एक्स इत्यत्र अस्य श्लोकस्य अर्थः लिखितः अस्ति— “अस्मिन् संसारे मनुष्याणां जन्मनः पूर्णसार्थकता अस्मिन् एव निहिता अस्ति यत् ते अन्यान् प्राणिन: प्रति स्वकीयया शारीरिक-सामर्थ्येन, धनसम्पत्त्या, बुद्ध्या तथा वाचा च सदैव परोपकारिणः कल्याणकारिणश्च कर्माणि एव सम्पादयेयुः।”
Hindusthan Samachar / Divya Ranjan