राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च कोलकातानगरस्य अग्निदुर्घटनायां जनधनहानौ दुःखं प्रकटितवन्तः
नवदिल्ली, १९ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः सी.पी. राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी च कोलकातानगरस्य फ्री स्कूल स्ट्रीट्-क्षेत्रे मङ्गलवासरस्य रात्रौ एकस्मिन् होटल इत्यत्र घटितायाम् अग्निदुर्घटनायां नवजनानां
राष्ट्रपति द्रौपदी मूर्मू (फाइल फोटो)।


नवदिल्ली, १९ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः सी.पी. राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी च कोलकातानगरस्य फ्री स्कूल स्ट्रीट्-क्षेत्रे मङ्गलवासरस्य रात्रौ एकस्मिन् होटल इत्यत्र घटितायाम् अग्निदुर्घटनायां नवजनानां मृत्योः विषये गभीरं शोकं प्रकटितवन्तः।

राष्ट्रपतिः बुधवासरे कोलकातानगरे घटितस्य अग्निकाण्डस्य कारणेन अभवत् या जनधनहानिः, तस्याः विषये दुःखं प्रकटितवती। सा अवदत् यत् कोलकातानगरे अग्निदुर्घटनायां जनानां मृत्योः समाचारः अत्यन्तं दुःखदः अस्ति। सा शोकसन्तप्तान् परिवारान् प्रति संवेदनां प्रकटितवती तथा आहतानां शीघ्रस्वास्थ्य-लाभाय कामनां कृतवती।

उपराष्ट्रपतिः राधाकृष्णन् अपि कोलकातानगरे घटितस्य अग्निकाण्डस्य कारणेन अभवत् या जनधनहानिः, तस्याः विषये दुःखं प्रकटितवान्। सः शोक-सन्तप्तेभ्यः परिवारेभ्यः गभीरां संवेदनां प्रकटयन् आहतानां शीघ्रस्वास्थ्य-लाभाय प्रार्थनां कृतवान्।

प्रधानमन्त्री नरेन्द्रमोदी अग्निदुर्घटनायां दुःखं प्रकटयन् अवदत् यत् दुःखस्य अस्मिन् समये तस्य संवेदनाः पीडितपरिवारैः सह सन्ति। प्रधानमन्त्री आहतानां शीघ्रस्वास्थ्यलाभाय कामनां कुर्वन् अवदत् यत् स्थानीयप्रशासनं प्रभावितजनानां सम्भाव्यं सर्वविधं साहाय्यं करोति।

Hindusthan Samachar / Divya Ranjan