सङ्घस्य अखिलभारतीय-समन्वयसभायाः शुभारम्भः
विशाखापत्तनम्, १९ अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य अखिल-भारतीय-समन्वयसभा आन्ध्रप्रदेशस्य विशाखापत्तनम् जनपदस्य गुडीलोवा-स्थिते विज्ञानविहार-विद्यालये बुधवासरे प्रातः प्रारब्धा। त्रिदिवसीयायाः अस्याः सभायाः उद्घाटनं सरसङ्घचालकेन डॉ. मोहन
संघ


विशाखापत्तनम्, १९ अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य अखिल-भारतीय-समन्वयसभा आन्ध्रप्रदेशस्य विशाखापत्तनम् जनपदस्य गुडीलोवा-स्थिते विज्ञानविहार-विद्यालये बुधवासरे प्रातः प्रारब्धा। त्रिदिवसीयायाः अस्याः सभायाः उद्घाटनं सरसङ्घचालकेन डॉ. मोहनभागवतेन सरकार्यवाहेन दत्तात्रेय-होसबालेन च भारतमातुः चित्रे पुष्पार्चनं कृत्वा कृतम्।

सङ्घस्य प्रचारविभागानुसारं प्रतिवर्षम् आयोज्यमानायाम् अखिलभारतीय-समन्वयसभायां सरसङ्घचालकः डॉ. मोहनभागवतः, सरकार्यवाहः दत्तात्रेय-होसबाले, सर्वे सहसरकार्यवाहाः अन्ये च केन्द्रीयपदाधिकारिणः उपस्थिताः सन्ति। इयं सभा अगस्तमासस्य २१ दिनाङ्कस्य सायंकालपर्यन्तं चलिष्यति। सभायां सङ्घप्रेरितानां ३२ विविध-सङ्गठनानां, यथा भारतीय-मजदूर-सङ्घस्य, विश्वहिन्दुपरिषदः, भारतीय-जनतापक्षस्य, अखिल-भारतीय-विद्यार्थि-परिषदः, भारतीय-किसानसङ्घस्य, राष्ट्रसेविकासमितेः च राष्ट्रीयाध्यक्षाः, महामन्त्रिणः, अखिलभारतीयसङ्गठन-मन्त्रिणः, कतिपये चयनिताः कार्यकर्तारश्च उपस्थिताः सन्ति।

सभायां विविधसङ्गठनेभ्यः ४९ महिलाभिः सह २५३ प्रमुखकार्यकर्तारः तथा सङ्घस्य पदाधिकारिणः सम्मिल्य ३२७ प्रतिनिधयः अपेक्षिताः सन्ति।

सङ्घस्य अखिलभारतीयप्रचारप्रमुखस्य सुनीलाम्बेकरस्य अनुसारम् इयं न कापि कार्यकारिणीसभा न वा निर्णयग्रहणसभा, अपि तु विभिन्नसङ्गठनानां मध्ये अनुभवानां आदान-प्रदानम् परस्पर-समन्वयस्य च उन्नयनम् अस्याः सभायाः उद्देश्यम् अस्ति। सभायां देशस्य वर्तमानस्थितेः, सामाजिकपरिवर्तनस्य, विविधसामाजिकसमस्यानां च विषये विचारविमर्शः भविष्यति। जनसङ्ख्यायाः असन्तुलनेन जनसांख्यिकीयपरिवर्तनेन च उत्पद्यमानानां चिन्तानां तथा तेषां समाधानोपायानां विषये अपि चर्चा भविष्यति। युवानः मादकद्रव्येभ्यः दूरं स्थापयितुं उपायानां तथा नशामुक्त्यै विभिन्नसङ्गठनानां भाविभूमिकायाश्च विषये अपि विचारः भविष्यति। तदतिरिक्तं युवसु जागरूकतावर्धनसम्बद्धेषु अन्येषु विषयेष्वपि चर्चा भविष्यति।

सङ्घस्य शताब्दीवर्षस्य अवसरे निर्धारितानां पञ्चपरिवर्तनविषयाणाम् अपि सभायां चर्चा भविष्यति। एतेषु सामाजिकसमरसता, पर्यावरणानुकूल-जीवनशैली, कुटुम्बप्रबोधनम्, ‘स्व’-भावना तथा नागरिककर्तव्यानां पालनम् इत्येते विषयाः अन्तर्भवन्ति। एतेषु विषयेषु स्वयंसेवकैः विभिन्नसङ्गठनानां कार्यकर्तृभिश्च क्रियमाणानां प्रयत्नानां समीक्षा तथा शताब्दीवर्षस्य अनन्तरम् एतान् विषयान् अग्रे वर्धयितुं रणनीतेः विभिन्नसङ्गठनानां भूमिकायाश्च विषये अपि विचारः भविष्यति।

Hindusthan Samachar / Divya Ranjan