संत रविदासस्य 650तमायां जयंत्यां कटिहारे 'समरसता संकल्प अभियानं' शुभारब्धम्, प्रत्येकस्मिन् गुरुवासरे आयोक्ष्यते विशेषेण विकासशिविरम्
कटिहारः, 19 अगस्तमासः (हि.स.)। श्रीगुरुसन्तरविदासस्य षड्शततमजयन्त्याः पावने अवसरे कटिहारजनपदस्य सर्वेषु अनुसूचितजातीयटोलेषु अगस्तमासस्य अष्टादशदिनाङ्कात् २०२६ तमवर्षस्य फेब्रुवरीमासस्य पञ्चदशदिनाङ्कपर्यन्तं व्यापकः ‘समरसतासङ्कल्पाभियानः’ प्रचलति।
संत रविदासस्य 650तमायां जयंत्यां कटिहारे 'समरसता संकल्प अभियानं' शुभारब्धम्, प्रत्येकस्मिन् गुरुवासरे आयोक्ष्यते विशेषेण विकासशिविरम्


कटिहारः, 19 अगस्तमासः (हि.स.)।

श्रीगुरुसन्तरविदासस्य षड्शततमजयन्त्याः पावने अवसरे कटिहारजनपदस्य सर्वेषु अनुसूचितजातीयटोलेषु अगस्तमासस्य अष्टादशदिनाङ्कात् २०२६ तमवर्षस्य फेब्रुवरीमासस्य पञ्चदशदिनाङ्कपर्यन्तं व्यापकः ‘समरसतासङ्कल्पाभियानः’ प्रचलति। षण्मासपर्यन्तं चलने अस्य अभियानस्य मुख्योद्देश्यं अनुसूचितजातिबहुलक्षेत्रेषु विविधासां सर्वकारीययोजनानां नागरिकसुविधानां च शतप्रतिशतं लाभं जनानां कृते प्रापयितुम् अस्ति।

जिलाधिकारी आशुतोषद्विवेदी अवदत् यत् अभियानस्य प्रारम्भिकचरणे अगस्तमासस्य अष्टादशदिनाङ्कात् विंशतिदिनाङ्कपर्यन्तं जनपदस्य सर्वेषु प्रखण्डेषु कलशयात्रा आयोज्यते। एषा यात्रा जनपदस्तरात् प्रारभ्य पञ्चायतस्तरं ततः गृहं गृहं च गमिष्यति। अस्याः यात्रायाः सुचारुसञ्चालनाय सर्वेभ्यः प्रखण्डविकासाधिकारिभ्यः सम्बन्धिताधिकारिभ्यश्च निर्देशाः पूर्वमेव निर्गताः सन्ति। योजनानां प्रभाविरूपेण क्रियान्वयनाय अगस्तमासस्य सप्तविंशतिदिनाङ्कात् २०२७ तमवर्षस्य फेब्रुवरीमासस्य पञ्चदशदिनाङ्कपर्यन्तं प्रत्येकस्मिन् गुरुवासरे प्रखण्डवारक्रमानुसारं ‘श्रीगुरुसन्तरविदासविकासशिबिराणि’ आयोजयिष्यन्ते। एतेषां शिबिराणां पूर्वं सम्बन्धितविभागैः आवेदनानां निष्पादनं पूर्णं करिष्यते, येन शिबिरदिने एव लाभार्थिभ्यः तेषां अधिकारानुसारं लाभस्य वितरणं कर्तुं शक्यते तथा वञ्चितेभ्यः जनाभ्यः नूतनानि आवेदनानि अपि स्वीकर्तुं शक्यन्ते।

सन्तरविदासस्य सन्देशानां सर्वकारीययोजनानां च व्यापकप्रचारप्रसाराय २०२६ तमवर्षस्य सितम्बरमासात् अक्टूबरमासपर्यन्तं सर्वेषु प्रखण्डेषु विशेषाः सूचनाशिक्षासंवादवाहनाः सञ्चालयिष्यन्ते। तदतिरिक्तं २०२७ तमवर्षस्य फेब्रुवरीमासस्य पञ्चदशदिनाङ्कपर्यन्तं जनपदस्य विद्यालयेषु क्रीडास्पर्धाः, साइकिलयात्राः, वादविवादस्पर्धाः, निबन्धस्पर्धाः प्रश्नोत्तरीस्पर्धाश्च आयोजयिष्यन्ते। तथैव अनुसूचितजातीयानां छात्रछात्राणां आधुनिकप्रौद्योगिक्या सह संयोजनाय जनपदस्तरे त्रिमितीयमुद्रणस्य, कृत्रिमबुद्धिमत्तायाः ‘इण्डस्ट्री फोर पॉइण्ट जीरो’ इत्यस्य च सम्बन्धितविशेषकौशलविकासप्रशिक्षणसत्राणि अपि आयोजयिष्यन्ते।

---------------