Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा विजयेन विधानसभायां घोषणा
दुग्धक्रयमूल्यं प्रतिलीटरं ३८ रूप्यकात् ४१ रूप्यकाणि यावत् वर्धयिष्यते
चेन्नई, १९ अगस्तमासः (हि.स.)। तमिलनाडुविधानसभायां बुधवासरे अनुदानमागधानां चर्चायाः तृतीये दिने मुख्यमन्त्रिणा विजयेन विधायकानां सामान्यजनानां च सम्बद्धाः अनेके महत्त्वपूर्णाः निर्णयाः घोषिताः। तेन सर्वेभ्यः विधायकेभ्यः निर्वाचनक्षेत्राणां भ्रमणाय जनसेवायै च सर्वकारस्य पक्षतः वाहनं प्रदातुम् उद्घोषितम्। तदतिरिक्तं दुग्धक्रयमूल्यस्य वृद्धेः, चेन्नै-नगरस्य पेरम्बूर्-क्षेत्रे अतिविशिष्टचिकित्सालयस्य स्थापनायाः, मुख्यमन्त्रिचिकित्सा-बीमायोजनायाः सीमायाः वृद्धेः तथा राज्ये सप्त नवीन-परिचर्य-महाविद्यालयानां स्थापनायाश्च घोषणा कृता।
विधानसभायां नियमस्य ११० इत्यस्य अन्तर्गतं घोषणाः कुर्वन् मुख्यमन्त्री अवदत् यत् लोकतन्त्रस्य महत्त्वपूर्णस्तम्भरूपेण विधायकाः स्वदायित्वानि निर्वहन्ति। सः अवदत् यत् विधानसभायां प्रथमवारं निर्वाचितानां प्रथमवंशीयविधायकानां संख्या वर्धिता अस्ति। आर्थिकदृष्ट्या समर्थाः न भवन्तोऽपि जनसेवां कुर्वतां एतेषां विधायकानां निर्वाचनक्षेत्रे कार्याणि सुचारुरूपेण सञ्चालयितुं सुविधां प्रदातुं सर्वेभ्यः विधायकेभ्यः सर्वकारीयवाहनं प्रदास्यते।
मुख्यमन्त्री अवदत् यत् विधायकाः स्वसहायतायै एकम् सहायकं नियोक्तुं शक्नुवन्ति। सहायकस्य नियुक्त्यै प्रतिमासं २५ सहस्ररूप्यकाणां राशिः प्रदास्यते। अपरतः सर्वकारस्य पक्षतः प्रदीयमानस्य वाहनस्य कृते चालकः नियुक्तः भविष्यति। वाहनस्य इन्धनाय अनुरक्षणाय च प्रतिमासं ७५ सहस्र-रूप्यकाणां वाहनभत्ता प्रदास्यते।
इयं घोषणा गतसप्ताहे विदुथलाई चिरुथैगल कच्ची-पक्षस्य विधायकया ज्योतिमणिना विधायकानां निर्वाचनक्षेत्रेषु भ्रमणाय सर्वकारीयवाहनं प्रदातुं कृताया: याचनायाः अनन्तरं कृता अस्ति।
मुख्यमन्त्रिणा अन्यस्मिन् घोषणायां उक्तं यत् राज्यस्य प्रायः ८८०० सहकारी-समितिभिः सम्बद्धेभ्यः ३.१६ लक्षं दुग्धोत्पादकेभ्यः प्रतिदिनं प्रायः ३४ लक्षं लीटर दुग्धं क्रीयते। सम्प्रति प्रतिदिनं प्रायः ३१ लक्षं लीटरं दुग्धम् आविन्-संस्थायाः माध्यमेन उत्पाद्यते। सः अवदत् यत् दुग्धोत्पादकान् प्रोत्साहयितुं दुग्धस्य क्रयमूल्यं प्रतिलीटरं ३८ रूप्यकात् वर्धयित्वा ४१ रूप्यकाणि करिष्यते।
मुख्यमन्त्रिणा चेन्नई-नगरस्य पेरम्बूर्-क्षेत्रे प्रायः ३०० कोटिरूप्यकाणां अनुमानितव्ययेन विश्वस्तरीयस्य बहु-प्रयोजनस्य अतिविशिष्ट-चिकित्सालयस्य स्थापनायाः घोषणा अपि कृता। चिकित्सालये ४०० शय्याः भविष्यन्ति।
तदतिरिक्तं राज्ये सप्त नवीनपरिचर्या-महाविद्यालयाः स्थापिताः भविष्यन्ति। एतेषु महाविद्यालयेषु बी.एस.सी.-परिचर्या-विज्ञानस्य ६२० नवीनस्थानानि सृज्यन्ते।
तदतिरिक्तं मुख्यमन्त्रिचिकित्सा-बीमायोजनायाः अन्तर्गतं उपलब्धां बीमाराशिं पञ्चलक्ष-रूप्यकेभ्यः वर्धयित्वा २५ लक्षरूप्यकाणि कर्तुमपि घोषणा कृता।
Hindusthan Samachar / Divya Ranjan