अमेठीं प्राप्नोत् पुरातत्व विभागस्य दलं , 29 तांम्रस्य गोलकानि उक्तानि 80 वर्षीय पुरातनानि शतघ्नीगोलकानि
अमेठी, 19 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य अमेठीजनपदस्य मुसाफिरखाना-तहसीलक्षेत्रस्य भनौलीग्रामे शौचालयनिर्माणार्थं क्रियमाणे उत्खनने प्राप्तानां २९ स्थूलधातुवर्तुलावशेषाणां परीक्षणार्थं बुधवासरे पुरातत्त्व-संस्कृतिविभागस्य दलं घटनास्थलं प्राप्त
गड्ढे में जाँच करती टीम


जाँच करती ASI की टीम


अमेठी, 19 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य अमेठीजनपदस्य मुसाफिरखाना-तहसीलक्षेत्रस्य भनौलीग्रामे शौचालयनिर्माणार्थं क्रियमाणे उत्खनने प्राप्तानां २९ स्थूलधातुवर्तुलावशेषाणां परीक्षणार्थं बुधवासरे पुरातत्त्व-संस्कृतिविभागस्य दलं घटनास्थलं प्राप्तम्। दलस्य निरीक्षणानन्तरं ज्ञातं यत् भूमेः प्राप्ताः सर्वे वर्तुलाकारावशेषाः ताम्रनिर्मिताः सन्ति तथा च ते प्रायः अष्टतिवर्षपुरातनाः सन्ति। पुरातत्त्वाधिकारिणां मतानुसारं प्राचीनकाले एतेषां प्रयोगः तोपेषु स्थापयित्वा प्रहारार्थं क्रियते स्म।

उत्तरप्रदेशराज्यस्य पुरातत्त्व-संस्कृतिविभागस्य लखनऊस्थस्य सहायकपुरातत्त्वाधिकारिणा डॉ. मनोजकुमारयादवेन उक्तं यत् शासनस्य आदेशानुसारं दलं निरीक्षणार्थं प्राप्तम् अस्ति। तेन कथितं यत् प्राप्ताः गोलाकारावशेषाः शस्त्रस्य भागाः सन्ति, ये निष्क्रियीकरणस्य उद्देश्येन भूमौ निखाताः आसन्। एकस्य गोलाकारावशेषस्य व्यासः प्रायः षष्टिः सेन्टिमीटर्, उन्नतिः प्रायः विंशतिः सेन्टिमीटर् तथा भारः नवतः दश किलोग्रामपर्यन्तम् अस्ति। केषाञ्चित् गोलाकारावशेषाणाम् उपरिभागे प्रज्वालकं स्थापयितुं छिद्रमपि निर्मितम् अस्ति। दीर्घकालं यावत् भूमौ निखातत्वात् तेषां बाह्यपृष्ठे हरितवर्णस्य पटिना-स्तरः दृश्यते। डॉ. मनोजकुमारयादवेन एतत् विषयं शोधयोग्यम् इति कथयता उक्तं यत् विभागस्य शासनस्य च निर्देशानन्तरं अग्रिमकार्यवाही निर्धारितास्यते।

भनौलीनिवासी मोहम्मद इकबालः स्वस्य भूखण्डे सोमवासरे शौचालयनिर्माणार्थं उत्खननं कारयति स्म। तस्मिन् समये श्रमिकैः भूमेरन्तः स्थूलाः वर्तुलाकाराः धातुवस्तूनि दृष्टानि। निरन्तरम् एतादृशानां वस्तूनां प्राप्तेः अनन्तरं भूमिस्वामी मङ्गलवासरे प्रातः मुसाफिरखाना-कोतवाल्यां सूचनाम् अददात्। ततः पुलिसदलम् घटनास्थलं प्राप्य कुलं २९ गोलाकारावशेषान् प्राप्तवान् तथा सुरक्षादृष्ट्या घटनास्थलस्य निरीक्षणम् आरब्धवान्।

मुसाफिरखानायाः उपजिलाधिकारी नितेशराजेन उक्तं यत् सर्वे २९ गोलाकारावशेषाः पुलिसस्य संरक्षणे स्थापिताः सन्ति तथा च सम्प्रति भूमिस्वामिने निर्माणकार्यस्य अनुमतिः न प्रदत्ता अस्ति। अग्रे उत्खननं भविष्यति वा न वा इति निर्णयः पुरातत्त्वविभागस्य शासनस्य च प्रतिवेदनस्य आधारेण भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani