देवरियायाः चिकित्सा-महाविद्यालयाय प्रथमवारं देहदानद्वारा मानवशरीरं प्राप्तम् - प्राचार्या
देवरिया, १९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य महर्षिदेवराहाबाबा-स्वशासी-राज्य-चिकित्सा-महाविद्यालयस्य, देवरियायाः शरीररचनाशास्त्रविभागाय प्रथमवारं देहदानस्य माध्यमेन मानवशरीरं प्राप्तम् अस्ति। ‘अपना घर’ आश्रमस्य सहयोगेन प्राप्तस्य अस्य मानवशरीरस्य
मेडिकल कॉलेज का


देवरिया, १९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य महर्षिदेवराहाबाबा-स्वशासी-राज्य-चिकित्सा-महाविद्यालयस्य, देवरियायाः शरीररचनाशास्त्रविभागाय प्रथमवारं देहदानस्य माध्यमेन मानवशरीरं प्राप्तम् अस्ति। ‘अपना घर’ आश्रमस्य सहयोगेन प्राप्तस्य अस्य मानवशरीरस्य उपयोगः चिकित्साशिक्षार्थिनां अध्ययनाय प्रायोगिकप्रशिक्षणाय च भविष्यति।

शरीररचनाशास्त्रविभागः वर्ष २०२१ तः चिकित्साशिक्षार्थिभ्यः देहदानस्य व्यवस्थां सुनिश्चितं कर्तुं प्रयत्नशीलः आसीत्। दीर्घप्रयत्नानाम् अनन्तरं विभागेन इयं महत्त्वपूर्णा सफलता प्राप्ता। ६२-वर्षीया श्रीमती मीनाक्षीदेवी वक्षसि संक्रमणस्य कारणेन दिवंगता आसीत्। तस्याः परिजनैः मानवशरीरं चिकित्साशिक्षायै भावि-चिकित्सकानां प्रशिक्षणाय च दातुं प्रशंसनीयं निर्णयः कृतः।

महाविद्यालयस्य प्राचार्यायाः डॉ. रजनी इत्यस्याः प्रयत्नेन सहयोगेन च देहं वाराणसीतः समये एव चिकित्सा-महाविद्यालयं प्रापितम्। सूचना प्राप्तमात्रेण देहदानस्य प्रभारी डॉ. शालिनीगुप्ता आवश्यकां प्रक्रियां पूर्णां कारितवती। देहस्य प्राप्तेः अनन्तरं शरीररचना-शास्त्रविभागे अधुना १० तः अधिकानि मृतमानवशरीराणि चिकित्साशिक्षार्थिनां अध्ययनाय प्रायोगिकप्रशिक्षणाय च उपलब्धानि सन्ति। अनेन शिक्षार्थिभ्यः मानवशरीरस्य संरचनायाः प्रत्यक्षम् अध्ययनं कर्तुं, विच्छेदनस्य विधिं ज्ञातुं तथा सैद्धान्तिकशिक्षायाः प्रायोगिकशिक्षायाश्च मध्ये उत्तमं समन्वयं स्थापयितुं साहाय्यं भविष्यति।

महाविद्यालयप्रशासनेन श्रीमत्या: मीनाक्षी-देव्याः परिजनानां अस्मै अमूल्याय समाजहितकारी योगदानाय कृतज्ञता प्रकटिता। प्राचार्या डॉ. रजनी अवदत् यत् तेषां योगदानं भाविचिकित्सकानां शिक्षायां सदैव स्मरणीयं भविष्यति।

Hindusthan Samachar / Divya Ranjan