Enter your Email Address to subscribe to our newsletters

-ग्रीन हाइड्रोजन, ऑटोमोबाइल, टेक्नोलॉजी, इनोवेशन अथ हेल्थकेयर इत्येतन्मध्ये सहयोगस्य अपाराः संभावनाः
नव दिल्ली, 19 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य वित्तीयसंसदीयकार्य-मन्त्री सुरेशखन्ना अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे सुदृढा विधिव्यवस्था, विश्वस्तरीयः आधारभूतपरिसरः तथा निवेशानुकूलाः नीतयः उत्तरप्रदेशं सर्वाधिकसम्भावनाशीलनिवेशस्थलेषु अन्तर्भुक्तवन्तः। जापानदेशः अधुना प्रदेशस्य विकासयात्रायां केवलं निवेशकरूपेण न, अपितु दीर्घकालिकः रणनीतिकः च सहभागिरूपेण अग्रे वर्धते।
नवदिल्ल्यां ताजपैलेस इत्यत्र आयोजिते उत्तरप्रदेशजापाननिवेशसम्मेलने २०२६ इत्यस्मिन् सम्बोधयन् सुरेशखन्ना अवदत् यत् भारतजापानयोः सम्बन्धाः साझमूल्यानां समानदृष्टिकोणस्य परस्परप्राथमिकतानां च आधारेण निरन्तरं सुदृढाः भवन्ति। जापानदेशात् आगतस्य बृहद्प्रतिनिधिमण्डलस्य सहभागिता एतस्य प्रमाणं यत् उत्तरप्रदेशस्य प्रति जापानी औद्योगिकजगतः विश्वासः वर्धितः अस्ति। सः यामानाशीप्रान्तस्य राज्यपालं कोटारो नागासाकीं सहितं जापानीप्रतिनिधिमण्डलस्य स्वागतं कृतवान्।
सुरेशखन्ना अवदत् यत् सुदृढा विधिव्यवस्था, उत्तमा सम्पर्कव्यवस्था, विशालः उपभोक्तृबाजारः, कुशलं मानवसंसाधनम्, नीत्याधारितं सुशासनं तथा तीव्रगतिना विकसितः आधारभूतपरिसरः उत्तरप्रदेशस्य प्रमुखाः शक्तयः सन्ति। ‘निवेशमित्र’ इत्यादिव्यवस्थाभिः व्यवसायस्य मार्गः सुगमः कृतः अस्ति तथा निवेशप्रस्तावानां धरातले कार्यान्वयनस्य प्रक्रिया अपि गतिं प्राप्तवती अस्ति।
सः अवदत् यत् गतदिवसेषु मुख्यमन्त्रिणः योगी आदित्यनाथस्य जापानयात्रया उभयोः पक्षयोः मध्ये औद्योगिकस्य संस्थागतस्य च संवादस्य नूतना गतिः प्राप्ता अस्ति। अधुना हरितहाइड्रोजनस्य, स्वचालितवाहनानां, उन्नतविनिर्माणस्य, प्रौद्योगिक्याः, नवाचारस्य तथा स्वास्थ्यसेवायाः क्षेत्रेषु नवीनाः सम्भावनाः निर्मीयन्ते। उत्तरप्रदेशः जापानं केवलं निवेशकरूपेण न पश्यति, अपितु सततस्य दीर्घकालिकस्य च विकासस्य विश्वसनीयसहभागिरूपेण तस्य स्वागतं करोति। सः विश्वासं व्यक्तवान् यत् उत्तरप्रदेशजापाननिवेशसम्मेलनं २०२६ उभयोः पक्षयोः आर्थिकान्, औद्योगिकान् संस्थागतांश्च सम्बन्धान् नूतनां उच्चतां नेष्यति।