जापानी तकनीक्याः लाभः लघुकृषकान् यावत् प्राप्नोत्, कृषिव्ययं निर्धार्य उत्पादकता वर्धेत : शिवराज सिंह चौहानः
-यूपी-जापान इन्वेस्टमेंटसंगोष्ठ्यां केंद्रीय कृषि मंत्रिणः कृषि क्षेत्रे तकनीकीसहयोगवर्धनस्य कर्तुम् आह्वानम् नवदिल्ली, 19 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य जापानदेशस्य च मध्ये निवेशस्य, प्रौद्योगिक्याः औद्योगिकसहयोगस्य च नूतनवेगेन संवर्धनस्य उद्दे
केन्द्रीय मंत्री शिवराज सिंह चौहान


-यूपी-जापान इन्वेस्टमेंटसंगोष्ठ्यां केंद्रीय कृषि मंत्रिणः कृषि क्षेत्रे तकनीकीसहयोगवर्धनस्य कर्तुम् आह्वानम्

नवदिल्ली, 19 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य जापानदेशस्य च मध्ये निवेशस्य, प्रौद्योगिक्याः औद्योगिकसहयोगस्य च नूतनवेगेन संवर्धनस्य उद्देश्येन आयोजिते यूपी-जापान-निवेश-सम्मेलने २०२६ इत्यस्मिन् केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः कृषिक्षेत्रे जापानीप्रौद्योगिक्याः विशेषज्ञतायाश्च लाभं भारतीयकृषकेभ्यः प्रदातुं बलं दत्तवान्। तेन उत्तरप्रदेशं जापानीकम्पनीनां निवेशाय सुदृढं गन्तव्यस्थानमिति प्रतिपादितम्।

तेन उक्तं यत् भारतस्य जापानदेशस्य च साझेदारी केवलं निवेशपर्यन्तं सीमिता न भवेत्, अपितु तस्याः लाभः कृषकेभ्यः, युवभ्यः, ग्रामीणार्थव्यवस्थायै च प्राप्नुयात्। भारते विशालं विपणि, बृहती युवजनसंख्या, कृषिक्षेत्रे च व्यापकाः सम्भावनाः सन्ति। अतः जापानदेशेन सह तकनीकी औद्योगिकसहयोगेन कृषिक्षेत्रे नूतनसम्भावनानां द्वाराणि उद्घाटयितुं शक्यन्ते। सः जापानी-उद्योगजगतः संस्थानानि च तादृशां प्रौद्योगिकी यन्त्रसामग्रीं च विकसितुं आहूतवान्, या लघुकृषकेभ्यः सीमान्तकृषकेभ्यश्च अपि उपयोगिनी सहजतया च उपलब्धा भवेत्।

उल्लेखनीयं यत् यूपी-जापान-निवेश-सम्मेलनम् २०२६ अगस्तमासस्य अष्टादशदिनाङ्कतः त्रयोविंशतिदिनाङ्कपर्यन्तं उत्तरप्रदेशे दिल्लीनगरे च आयोज्यमानम् अस्ति। अस्मिन् द्विशताधिकाः जापानी-उद्योगपतयः, मुख्यकार्यपालकाः, व्यापारीप्रतिनिधयः नीतिनिर्मातारश्च भागं गृह्णन्ति। यूपी-जापान-निवेश-सम्मेलने जापानीकम्पनीभ्यः उन्नतप्रौद्योगिकी, हरितहाइड्रोजनम्, नवीकरणीयशक्तिः, विद्युत्चालितयानव्यवस्था, अर्धचालकाः, वाहनघटकाः, अङ्कीयपायाभूतसंरचना, कौशलविकासः, पर्यटनम् इत्यादिषु क्षेत्रेषु निवेशस्य अवसराः प्रदर्श्यन्ते।

उत्तरप्रदेशस्य महत्त्वपूर्णः सहयोगी जापानदेशः

केन्द्रीयमन्त्री उक्तवान् यत् उत्तरप्रदेशः विशालस्य उपभोक्तृविपण्यस्य, कुशलमानवसंसाधनस्य, उत्तमसम्पर्कव्यवस्थायाः, तीव्रगत्या विकसितस्य पायाभूतसंरचनायाः, निवेशानुकूलानां नीतिनां च कारणेन वैश्विकनिवेशाय सुदृढं गन्तव्यस्थानं भूत्वा उदितः अस्ति। जापानः उत्तरप्रदेशस्य विशेषः महत्त्वपूर्णश्च सहयोगी अस्ति तथा मुख्यमन्त्रिणः योगी आदित्यनाथस्य साम्प्रतिकजापानयात्रया उभयोः पक्षयोः सम्बन्धाः अधिकं सुदृढाः अभवन्।

उत्तरप्रदेशे शक्तिः, परम्परा, प्रतिभा, पायाभूतसंरचना, निवेशः, नवोन्मेषः, विशालविपण्यस्य च सामर्थ्यम् विद्यते। सः जापानी-उद्योगजगतः आह्वयन् उक्तवान् यत् जापानस्य तकनीकीविशेषज्ञतां उत्तरप्रदेशस्य प्रतिभया विपण्यसम्भावनाभिश्च सह संयोज्य रोजगारस्य, नवोन्मेषस्य, स्थायिविकासस्य च अनन्ताः नूतनाः अवसराः सृजितुं शक्यन्ते।

कृषकाणां उत्पादकता वर्धयितुं आवश्यकता

कृषिमन्त्री उक्तवान् यत् अद्य आवश्यकता तादृश्याः प्रौद्योगिक्याः अस्ति, यया कृषकाणां उत्पादकता वर्धेत, जलस्य उपभोगः उत्पादनव्ययश्च न्यूनो भवेत् तथा कृषकाणां आयः वर्धेत्। कृषिक्षेत्रे क्रियमाणानां अनुसन्धानानां प्रत्यक्षलाभः क्षेत्रपर्यन्तं प्राप्नुयात्। अनुसन्धानं केवलं शोधपत्रेषु सीमितं न भवेत्, अपितु तस्य रूपान्तरणं तादृशेषु उत्पादेषु प्रौद्योगिकीषु च भवेत्, येषां कृषकैः सहजतया स्वीकरणं कर्तुं शक्येत।

ग्रामीणयुवानः अपि विकासयात्रायां सम्बद्धाः भवेयुः

केन्द्रीयमन्त्री कृषिप्रौद्योगिक्या सह ग्राम्ययुवानः सम्बद्धान् कर्तुमपि बलं दत्तवान्। तेन उक्तं यत् नवीनकृषियन्त्राणां प्रौद्योगिक्याश्च सञ्चालनस्य, अनुरक्षणस्य, तत्सम्बद्धानां व्यवसायानां च क्षेत्रेषु ग्रामीणयुवभ्यः रोजगारस्य उद्यमितायाश्च अवसराः सृजितुं शक्यन्ते। अनेन ग्रामस्य युवा विकासयात्रायाः केवलं दर्शकः न भूत्वा तस्याः सक्रियः सहभागी भविष्यति।

तेन जापानदेशम् आहूतं यत् कृषिप्रौद्योगिक्याः क्षेत्रे भारतं वैश्विककेन्द्रं कर्तुं सहयोगं करोतु। तेन उक्तं यत् कृषेः विनिर्माणस्य च मध्ये उत्तमसमन्वयेन कृषकेभ्यः उपयोगिनी प्रौद्योगिकी विकसितुं शक्यते।

भारत-जापानसम्बन्धाः केवलं निवेशपर्यन्तं सीमिताः न

शिवराजसिंहचौहानः भारतस्य जापानस्य च सम्बन्धान् केवलं द्वयोः देशयोः मध्ये सम्बन्धरूपेण न, अपितु द्वयोः संस्कृत्योः मध्ये सुदृढसाझेदारीरूपेण वर्णितवान्। तेन उक्तं यत् भारतस्य आध्यात्मिकसांस्कृतिकं सामर्थ्यं जापानस्य तकनीकीदक्षतया औद्योगिकसामर्थ्येन च सह मिलित्वा विकासस्य नूतनां दिशां निर्मातुं शक्नोति।

जापानदेशेन सह भारतस्य सहकारिता केवलं निवेशस्य दृष्ट्या न द्रष्टव्या। प्रौद्योगिकी, नवोन्मेषः, कौशलविकासः, विनिर्माणम्, रोजगारश्च इत्येतेषु क्षेत्रेषु दीर्घकालिकसहयोगः अस्याः साझेदार्याः महत्त्वपूर्णः भागः भवेत्।

Hindusthan Samachar / Dheeraj Maithani