उपराष्ट्रपतिः सी.पी. राधाकृष्णन् द्विदिवसीययात्रार्थम् उत्तराखण्डं प्राप्तवान्, राज्यपालः मुख्यमन्त्री धामी च स्वागतं कृतवन्तौ
— उपराष्ट्रपतेः यात्रायाः दृष्ट्या देहरादूननगरे कठोराः सुरक्षाव्यवस्थाः देहरादूनम्, १९ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् बुधवासरे द्विदिवसीययात्रार्थम् उत्तराखण्डं प्राप्तवान्। जौलीग्राण्ट्-विमानस्थानके राज्यपालः लेफ्टिनेण्ट् जनर
राज्यपाल उपराष्ट्रपति का स्वागत करते हुए।


उत्तराखंड के राज्यपाल उपराष्ट्रपति का स्वागत करते हुए।


— उपराष्ट्रपतेः यात्रायाः दृष्ट्या देहरादूननगरे कठोराः सुरक्षाव्यवस्थाः

देहरादूनम्, १९ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् बुधवासरे द्विदिवसीययात्रार्थम् उत्तराखण्डं प्राप्तवान्। जौलीग्राण्ट्-विमानस्थानके राज्यपालः लेफ्टिनेण्ट् जनरल गुरमीतसिंहः (सेवानिवृत्तः) तथा मुख्यमन्त्री पुष्करसिंह-धामी च तस्य स्वागतं कृतवन्तौ।

उपराष्ट्रपतेः यात्रायाः दृष्ट्या देहरादूननगरे सुरक्षाव्यवस्था सुदृढीकृता अस्ति। आरक्षककर्मचारिभिः जनपदस्य सीमासु आन्तरिकमार्गेषु च संदिग्धानां व्यक्तिनां वाहनानां च परीक्षणं तीव्रतरं कृतम् अस्ति।राधाकृष्णन् बुधवासरे देहरादूनस्थितां इन्दिरागान्धीराष्ट्रीयवन-अकादमीम् गमिष्यति। तत्र सः भारतीयवनसेवायाः २०२५-२७ तमस्य समूहस्य परिवीक्षाधीना-धिकारिणः सम्बोधयिष्यति तथा तैः सह संवादमपि करिष्यति।

तदनन्तरं २० अगस्तमासे उपराष्ट्रपतिः मसूरीस्थितायां लालबहादुरशास्त्री-राष्ट्रीयप्रशासन-अकादम्यां २०२४ तमस्य समूहस्य भारतीयप्रशासनसेवाधिकारिणां व्यावसायिकपाठ्यक्रमस्य द्वितीयचरणस्य समापनसमारोहे मुख्यातिथिरूपेण भागं ग्रहीष्यति। अकादम्याः यात्रायाः समये सः सरदारवल्लभभाईपटेलाय तथा पूर्व-प्रधानमन्त्रिणे लालबहादुरशास्त्रिणे च पुष्पाञ्जलिं समर्पयिष्यति।

उपराष्ट्रपतेः आवागमनं दृष्ट्वा देहरादूनस्य यातायातविभागेन विस्तृता यातायात-योजनापि प्रवर्तिता अस्ति। विशिष्टव्यक्तेः आवागमनस्य समये १९ अगस्तमासे अपराह्णे एकवादनात् सार्धत्रिवादनपर्यन्तं सा प्रवर्तिता आसीत्। २० अगस्तमासे प्रातः सार्धाष्टवादनात् सार्धदशवादनपर्यन्तं तथा मध्याह्ने द्वादशवादनात् त्रिवादनपर्यन्तं विभिन्नेषु मार्गेषु यातायातस्य मार्गपरिवर्तनं भविष्यति।

Hindusthan Samachar / Divya Ranjan