Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 19 अगस्तमासः (हि.स.)।
विश्वछायाचित्रणदिवसस्य अवसरे बुधवासरे भागलपुरछायाचित्रकारसङ्घस्य पक्षतः कार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे सामाजिकदायित्वं निर्वहता सङ्घेन निःशुल्कस्वास्थ्यपरीक्षणशिबिरस्य आयोजनं तथा पर्यावरणसंरक्षणाय वृक्षारोपणकार्यक्रमश्च सञ्चालितः। स्थानीयस्तरे आयोजिते अस्मिन् निःशुल्कस्वास्थ्यशिबिरे बहुसङ्ख्याकाः छायाचित्रकाराः तेषां परिवारजनाश्च सहभागितां कृतवन्तः। शिबिरे अनुभवीचिकित्सकानां दलं जनानां स्वास्थ्यपरीक्षणं कृत्वा उचितचिकित्सकीयपरामर्शं प्रदत्तवान्।
चिकित्सासेवां प्रदातृषु प्रमुखरूपेण चिकित्सकः डॉ. विनयकुमारझा, नेत्ररोगविशेषज्ञः डॉ. विष्णुकुमारः, दन्तचिकित्सकः डॉ. आशीषकुमारः, तथा डॉ. एस.बी.शरणः, डॉ. नीरजकुमारः, डॉ. पङ्कजकुमारश्च सम्मिलिताः आसन्। सङ्घेन सर्वेभ्यः चिकित्सकेभ्यः सहयोगिभ्यश्च कृतज्ञता व्यक्ता।
कार्यक्रमे एकतां प्रदर्शयता ‘बिहारछायाचित्रकारसङ्घः, भागलपुरम्’ इति विशेषरूपेण सम्मानितम्। अस्य गौरवपूर्णक्षणस्य साक्षी भवितुं बिहारछायाचित्रकारसङ्घस्य मधेपुराजनपदस्य अध्यक्षः कृष्णमुरारीशर्मा अपि विशेषरूपेण उपस्थितः आसीत्।
छायाचित्रणदिवसस्य हर्षं द्विगुणीकुर्वद्भिः पर्यावरणसंरक्षणस्य सन्देशः अपि प्रदत्तः। अस्य अन्तर्गतं पदाधिकारिभिः सदस्यैश्च सम्मिल्य वृक्षारोपणं कृतम्। ततः सर्वैः केक् छित्त्वा परस्परं विश्वछायाचित्रणदिवसस्य शुभकामनाः प्रदत्ताः।
सम्पूर्णस्य कार्यक्रमस्य सफलतायां भागलपुरछायाचित्रकारसङ्घस्य अध्यक्षस्य मनोजगुप्तस्य, सचिवस्य विभूतिभूषणस्य, उपाध्यक्षयोः धनञ्जयशर्मणः आशीषकुमारस्य च, कोषाध्यक्षस्य बजरङ्गीशर्मणः सहितं सर्वेषां सदस्याणां प्रशंसनीयं योगदानम् अभवत्।
सङ्घस्य पदाधिकारिभिः उक्तं यत् छायाचित्रकारसमाजस्य कल्याणाय स्वास्थ्यस्य, पर्यावरणस्य, सामाजिकसेवायाश्च सम्बद्धाः एतादृशाः सृजनात्मकाः कार्यक्रमाः भविष्येऽपि निरन्तरं आयोजयिष्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani