Enter your Email Address to subscribe to our newsletters

भोपालम्, १९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः हिन्दी-साहित्यस्य महान् साहित्यकारः आचार्यः हजारीप्रसादद्विवेदीः रामचरित-मानसस्य रचयिता च गोस्वामी तुलसीदासः इत्येतयोः जयन्त्यां नमनम् अकरोत्।
मुख्यमन्त्री डॉ. यादवः बुधवासरे सामाजिकमाध्यमस्य ‘एक्स’ इत्यस्य माध्यमेन अवदत्— “हिन्दीसाहित्यस्य महान् साहित्यकाराय, पद्मभूषणपुरस्कृते आचार्यहजारीप्रसादद्विवेदी-महोदयाय जयन्त्यवसरे सादरं नमनं करोमि। भारतीयसाहित्यस्य निबन्धक्षेत्रस्य च पूजनीयस्य द्विवेदी-महोदयस्य अतुलनीयं योगदानम् अमरं स्थास्यति।”
तुलसीदासस्य जयन्त्यां नमनं कुर्वन् मुख्यमन्त्री डॉ. यादवः अवदत्— “सन्तशिरोमणेः, भक्तेः मर्यादायाश्च महाकवेः, रामचरितमानसस्य रचयितुः गोस्वामितुलसीदासस्य जयन्त्यवसरे सादरं नमनं करोमि। मर्यादापुरुषोत्तमस्य भगवत: श्रीरामस्य चरित्रस्य माध्यमेन गोस्वामिना यः मङ्गलकारी शुभदीपः प्रज्वालितः, सः अनन्तकालपर्यन्तं जन-मानसम् आलोकयिष्यति।”
Hindusthan Samachar / Divya Ranjan