Enter your Email Address to subscribe to our newsletters

जयपुरम्, 19 अगस्तमासः (हि.स.)।
राजस्थानसर्वकारेण राज्यसर्वकारस्य कर्मचारिणां तेषां परिवाराणां च स्वास्थ्यसुरक्षां प्रति महत्त्वपूर्णः निर्णयः स्वीकृतः। मुख्यमन्त्रिणा भजनलालशर्मणा बुधवासरे एक्स इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् राजस्थानसर्वकारीयस्वास्थ्ययोजनायाः अन्तर्गतं स्वीकृतेषु चिकित्सोपचारपुटकेषु कर्करोगस्य चिकित्सायै अत्याधुनिकां कार्ट् कोशिकाचिकित्सां समावेशयितुं निर्णयः कृतः अस्ति।
मुख्यमन्त्री अवदत् यत् कर्मचारिणां तेषां परिवाराणां च स्वास्थ्यसुरक्षा सर्वकारस्य सर्वोच्चा प्राथमिकता अस्ति। अस्यामेव दिशि एषा महत्त्वपूर्णा पहलः कृता अस्ति। कार्ट् कोशिकाचिकित्सायाः राजस्थानसर्वकारीयस्वास्थ्ययोजनायाः परिधौ समावेशेन गम्भीरेण कर्करोगेण पीड्यमानानां कर्मचारिणां तेषाम् आश्रितानां परिवारसदस्यानां च आधुनिकचिकित्सासुविधा प्राप्तुं शक्यते।
सर्वकारस्य अनेन निर्णयेन कर्करोगसदृशस्य गम्भीररोगस्य चिकित्सायै कर्मचारिभ्यः तेषाम् आश्रितेभ्यश्च उत्तमस्वास्थ्यसुविधानां लाभः प्राप्तुं शक्यते इति अपेक्षा अस्ति। मुख्यमन्त्रिणा एतत् स्वास्थ्यसुरक्षां सुदृढां कर्तुं दिशि महत्त्वपूर्णं पदक्षेपम् इति कथितम् अस्ति।
कार्ट् कोशिकाचिकित्सा का अस्ति
कार्ट् कोशिकाचिकित्सा कर्करोगस्य कतिपयेषु प्रकारेषु प्रयुज्यमाना आधुनिकप्रतिकारशक्तिचिकित्सा अस्ति। अस्यां चिकित्सायां रोगिणः प्रतिरक्षाकोशिकाः विशेषप्रकारेण सज्जीकृत्य कर्करोगकोशिकाभिः सह योद्धुं प्रयुज्यन्ते। राजस्थानसर्वकारीयस्वास्थ्ययोजनायां अस्याः चिकित्सायाः समावेशेन पात्रलाभार्थिनां कृते अस्याः अत्याधुनिकचिकित्सायाः प्राप्तिः सुगमा भविष्यति।
---------------