अमृता विश्व विद्यापीठे ‘दीक्षारंभः’, नूतनच्छात्राः अगृह्र्णात् राष्ट्रनिर्माणस्य संकल्पः
हरिद्वारम्, 19 अगस्तमासः (हि.स.)। अमृता-विश्वविद्यापीठस्य हरिद्वार-परिसरे नवशैक्षणिकसत्रस्य विद्यार्थिनां स्वागतार्थं ‘दीक्षारम्भः २०२६’ इति छात्रप्रवेशकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्य प्रारम्भः गणपतिहोमेन पारम्परिकदीपप्रज्वलनेन च अभवत्।
दीक्षारंभ शुभारम्भ के अवसर पर यज्ञ करते हुए


हरिद्वारम्, 19 अगस्तमासः (हि.स.)।

अमृता-विश्वविद्यापीठस्य हरिद्वार-परिसरे नवशैक्षणिकसत्रस्य विद्यार्थिनां स्वागतार्थं ‘दीक्षारम्भः २०२६’ इति छात्रप्रवेशकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्य प्रारम्भः गणपतिहोमेन पारम्परिकदीपप्रज्वलनेन च अभवत्।

कार्यक्रमे माता अमृतानन्दमयीदेवी अम्मा इत्यनया दृश्यसन्देशस्य माध्यमेन विद्यार्थिनः सम्बोधिताः। तया उक्तं यत् शिक्षायाः उद्देश्यं केवलं ज्ञानस्य व्यावसायिकदक्षतायाश्च प्राप्तिः नास्ति, अपितु विद्यार्थिषु विवेकस्य, मानवीयमूल्यानां, करुणायाश्च विकासः अपि आवश्यकः अस्ति।

मुख्यातिथिः लेफ्टिनेन्ट जनरल अजयकुमारसिंहः सेनायां स्वस्य चतुश्चत्वारिंशद्वर्षीयानुभवान् विद्यार्थिभिः सह साझीकृत्य राष्ट्रनिर्माणे सक्रिययोगदानं कर्तुं तान् आहूतवान्। भारतं प्रौद्योगिकीदृष्ट्या सुदृढं कर्तुं, अर्थव्यवस्थां सुदृढां कर्तुं तथा वैश्विकमञ्चे देशस्य सुदृढं स्थानं स्थापयितुं युवानां भूमिका महत्त्वपूर्णा अस्ति इति तेन प्रतिपादितम्।

विशिष्टातिथिः उत्तराखण्डसर्वकारस्य मन्त्रिमण्डलमन्त्री मदनकौशिकः राज्ये शिक्षाक्षेत्रे क्रियमाणानां प्रयासानां तथा प्रधानमन्त्री नरेन्द्रमोदिनः ‘विकसितभारत’ इति सङ्कल्पनायाश्च विषये प्रकाशं क्षिप्तवान्। तेन प्रौद्योगिक्याः स्वास्थ्यसेवाक्षेत्रस्य च प्रगतिः उल्लिखिता। विद्यार्थिभ्यः व्यक्तिगतस्तरे सकारात्मकयोगदानं कर्तुं तेन आह्वानं कृतम्। लघवः प्रयासाः यदा सामूहिकरूपेण अग्रे वर्धन्ते, तदा समाजे देशे च महत् परिवर्तनं भवितुं शक्नोति इति तेन उक्तम्।

अमृताचिकित्सालयस्य फरीदाबादस्य प्रशासनिकनिदेशकः स्वामी निजामृतानन्दपुरी विद्यार्थिभ्यः आशीर्वचनानि प्रदाय प्रेरणादायकं सम्बोधनं कृतवान्। कार्यक्रमे हरिद्वारभाजपायाः माध्यमसम्बद्धः विवेकतिवारी अपि उपस्थितः आसीत्। प्रमोदकृष्णनेन अपि विद्यार्थिनः सम्बोध्य स्वविचाराः प्रस्तुताः।

अस्मिन् अवसरे नवप्रविष्टैः विद्यार्थिभिः ‘दीक्षारम्भ’ इति शपथः स्वीकृता। तैः विनम्रतया ज्ञानार्जनस्य, ईमानदारीपूर्वकं उत्कृष्टतां प्राप्तुं, समाजस्य सेवां कर्तुं तथा विकसितभारतस्य निर्माणे योगदानं दातुं च सङ्कल्पः कृतः। विद्यार्थिभिः उत्तरदायिनः नागरिकाः संवेदनशीलाः मनुष्याश्च भवितुं प्रतिबद्धता अपि प्रकटिता।

कार्यक्रमस्य अन्ते हरिद्वारपरिसरस्य निदेशकः स्वामी विसृतमृतचैतन्यः सर्वेभ्यः अतिथिभ्यः, शिक्षकभ्यः, विद्यार्थिभ्यः आयोजकेभ्यश्च कृतज्ञतां प्रकटितवान्। राष्ट्रगानेन कार्यक्रमस्य समापनम् अभवत्।

Hindusthan Samachar / Dheeraj Maithani