Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 19 अगस्तमासः (हि.स.)।
गुरुकुलकाङ्गडीसमविश्वविद्यालयस्य कन्यागुरुकुलहरिद्वारस्थिते हिन्दीविभागे गोस्वामितुलसीदासजयन्त्याः उपलक्ष्ये प्रेरणाकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यं छात्राः गोस्वामितुलसीदासस्य जीवनमूल्यैः, साहित्यिकयोगदानेन, रामचरितमानसस्य शिक्षाभिश्च प्रेरिताः भवन्तु इति आसीत्।
कार्यक्रमे परिसरप्रभारी प्रो. सुरेखाराणा छात्राभ्यः उज्ज्वलभविष्यस्य शुभकामनाः प्रदाय जीवने सकारात्मकमूल्यानां स्वीकरणस्य सन्देशं दत्तवती। मानविकीसङ्कायस्य सङ्कायाध्यक्षा प्रो. मुदिताऽग्निहोत्री गोस्वामितुलसीदासेन रामचरितमानसे प्रदत्तस्य अमूल्यस्य योगदानस्य विषये प्रकाशं क्षिप्त्वा छात्राभ्यः तस्य साहित्यतः प्रेरणां ग्रहीतुं आह्वानं कृतवती।
डॉ. निशाशर्मा तुलसीदासस्य सामाजिकस्य सांस्कृतिकस्य च योगदानस्य विषये विस्तरेण चर्चां कृतवती। सा छात्राभ्यः साहित्यस्य अध्ययनस्य प्रति रुचिं विकसितुं प्रेरणां दत्तवती। कार्यक्रमे डॉ. श्वेताऽग्रवालः, डॉ. वन्दनासिंहः, डॉ. रीनानौटियालः तथा शोधार्थी रविपाण्डेयः अपि छात्राः सम्बोधितवन्तः।
अस्मिन् अवसरे आञ्चलः, प्रिया, रजनीशः, आरती, रियाऽआर्या, अनुष्का, विशाखा, कोमला, गायत्री, मनप्रीता, ज्योतिः, कीर्तिः, सोनी, सीमा, आयुषी, मोनिका, शिवानी, पिङ्की, खुशी, मन्नू, पूजा, साक्षी इत्यादयः बहुसङ्ख्यकाः छात्राः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani