उत्तरप्रदेश-जापान-निवेशसमागमः-२०२६ : जापानी प्रतिनिधिमण्डलं आगरानगरे योगीसर्वकारस्य आतिथ्येन अभिभूतम्
यामानाशी-प्रान्तस्य राज्यपालस्य कोटारो-नागासाकी-महोदयस्य नेतृत्वे जापानीदलेन ताजमहलस्य दर्शनं कृतम्। मयूरनृत्येन, ब्रजरसियया ब्रजस्य पारम्परिकसंस्कृत्या च विदेशिनः अतिथयः आकृष्टाः। एषा यात्रा जापानीपर्यटकानां उत्तर-प्रदेशस्य विषये अवगमनं वर्धयिष्
यामानाशी के गवर्नर कोटारो नागासाकी के नेतृत्व में जापानी दल ने किया ताजमहल का दीदार


यामानाशी के गवर्नर कोटारो नागासाकी


यामानाशी-प्रान्तस्य राज्यपालस्य कोटारो-नागासाकी-महोदयस्य नेतृत्वे जापानीदलेन ताजमहलस्य दर्शनं कृतम्।

मयूरनृत्येन, ब्रजरसियया ब्रजस्य पारम्परिकसंस्कृत्या च विदेशिनः अतिथयः आकृष्टाः।

एषा यात्रा जापानीपर्यटकानां उत्तर-प्रदेशस्य विषये अवगमनं वर्धयिष्यति : पर्यटनमन्त्री जयवीरसिंहः

आगरा, २० अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य योगी-आदित्यनाथ-सर्वकारः प्रदेशं वैश्विकपर्यटनस्य निवेशस्य च केन्द्ररूपेण स्थापयितुं निरन्तरं प्रयतते। अस्मिन्नेव दिशि गुरुवासरे ताजनगरे आगरा इत्यत्र ऐतिहासिकः अवसरः दृष्टः, यदा जापानस्य यामानाशी-प्रान्तस्य उच्चस्तरीयप्रतिनिधिमण्डलेन उत्तरप्रदेशे स्वकीयायाः बहुप्रतीक्षितायाः पर्यटन-यात्रायाः प्रारम्भः कृतः। जापानस्य यामानाशी-प्रान्तस्य राज्यपालः कोटारो-नागासाकी तथा उपराज्यपालः जुनिची-इशिदेरा इत्येतयोः नेतृत्वे आगतस्य अस्य जापानीदलस्य सदस्यैः न केवलं विश्वस्य सप्तसु आश्चर्येषु परिगणितस्य ताजमहलस्य दर्शनं कृतम्, अपितु भारतीयसंस्कृतेः, ब्रजपरम्परायाः उत्तरप्रदेशसर्वकारस्य च भव्यस्य आतिथ्यस्य समीपतः अनुभवः प्राप्तः।

ब्रजस्य पारम्परिकसंस्कृत्या आत्मीयस्वागतेन च यात्रायाः प्रारम्भः

विदेशिनाम् अतिथीनाम् आगमने उत्तरप्रदेशस्य समृद्धायाः विरासतायाः जीवन्तसंस्कृतेश्च अनन्या झलक् प्रदर्शिता। प्रतिनिधिमण्डलं दिवसे गलगोटिया-विश्वविद्यालयस्य कार्यक्रमे सम्मिलितं भूत्वा यदा आगरा-नगरं प्राप्तवान्, तदा तस्य स्वागतं ब्रजस्य पारम्परिकसंस्कृतेः रंगैः कृतम्। जापानीदलस्य सम्मानार्थं मयूरनृत्यस्य ब्रजरसियायाश्च अत्यन्तं मनोहारिण्यः प्रस्तुतयः प्रदर्शिताः। एताभिः सांस्कृतिकप्रस्तुतिभिः विदेशिनः अतिथयः अत्यन्तम् आकृष्टाः। पर्यटनविभागस्य महानिदेशिका डॉ. वेदपतिमिश्रा तथा प्रदेशस्य पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः जे.पी.-पैलेस इत्यत्र अतिथिभिः सह मिलित्वा तैः सह मध्याह्नभोजनं कृतवन्तौ। यात्रायाः प्रारम्भादेव जापानीप्रतिनिधिमण्डलेन अनुभूतं यत् योगीसर्वकारे ‘अतिथिदेवो भव’ इत्यस्य परम्परा कियत् गभीरतया आचर्यते।

ताजमहलस्य अनुपमसौन्दर्येण शिल्पकौशलेन च कोटारो अभिभूतः

भोजनस्य औपचारिकमिलनस्य च अनन्तरं जापानीप्रतिनिधिमण्डलं विश्वविख्यातस्य ताजमहलस्य दर्शनार्थम् अगच्छत्। श्वेतसङ्गमर्मरेण निर्मितस्य अस्य अद्भुतभवनस्य भव्यता सूक्ष्मशिल्पकला च जापानी-अतिथीन् विशेषरूपेण प्रभावितवती। ताजमहलस्य सौन्दर्यं स्वनेत्राभ्यां दृष्ट्वा यामानाशी-प्रान्तस्य राज्यपालः कोटारो-नागासाकी पूर्णतया अभिभूतः दृश्यते स्म।

स्वकीयम् अनुभवम् अवदन् कोटारो-नागासाकी उक्तवान् यत् चित्रेषु बहुवारं दृष्ट्वापि समीपतः दर्शनम् अत्यन्तं भिन्नः अनुभवः अस्ति। मया ताजमहलः चित्रेषु बहुवारं दृष्टः, किन्तु अत्र आगत्य अस्य शिल्पकौशलं सर्वथा भिन्नरूपेण अनुभूतम्। दूरात् यथा अस्य भव्यता दृश्यते, समीपतः तस्य सूक्ष्मताः ततोऽप्यधिकं प्रभावितवन्ति।

योगीसर्वकारस्य सुगमव्यवस्थाभिः जापानीदलस्य मनः जितम्

विदेशिनाम् अतिथीनां यात्रायाः व्यवस्था एतादृशी सुगमा पारदर्शिनी च कृता आसीत् यत् तेभ्यः कस्यापि प्रकारस्य असुविधायाः सम्मुखिन: न कर्तव्यः अभवत्। योगीसर्वकारस्य निर्देशानुसारं प्रशासनपक्षतः सुरक्षा, यातायातः आतिथ्यं च विश्वस्तरीयरूपेण व्यवस्थापितम् आसीत्। यामानाशी-विश्वविद्यालयस्य अध्यक्षः काजुहिको-नाकामुरा यात्रायाः एतासां उत्कृष्टव्यवस्थानां मुक्तकण्ठेन प्रशंसाम् अकरोत्।

नाकामुरेण उक्तं यत् व्यस्तकार्यक्रमस्य सत्त्वेऽपि प्रतिनिधिमण्डलेन एकस्थानात् अन्यस्थानं प्रति सहजतया समयबद्धरूपेण च गमनस्य उत्कृष्टः अनुभवः प्राप्तः। सर्वोत्तमाः व्यवस्थाः प्रायः ताः एव भवन्ति, येषां विषये यात्रिभि: पृथक्तया चिन्तनं न करणीयम्। वयं एकस्मात् कार्यक्रमात् अपरं कार्यक्रमं प्रति सुखेन समये च प्राप्तवन्तः, येन अस्माकं सम्पूर्णं ध्यानं यात्राव्यवस्थायाः स्थाने अत्रत्येषु जनैः, संस्कृत्या स्थानैश्च परिचितुं केन्द्रितम् अभवत्।

ब्रजसंस्कृतेः अनुभवेन भारतं ज्ञातुं जिज्ञासा उत्पन्ना

आग्रायां जापानीप्रतिनिधिमण्डलेन केवलं ताजमहलसदृशस्य ऐतिहासिकभवनस्य दर्शनमेव न, अपितु ब्रजक्षेत्रस्य सांस्कृतिकपरिचयस्य गभीरः अनुभवोऽपि प्राप्तः। यामानाशी-प्रान्तस्य उपराज्यपालः जुनिची-इशिदेरा ब्रजसंस्कृतेः प्रशंसां कुर्वन् ताम् एकं विशिष्टम् अनुभवं कथितवान्। तेन उक्तं यत् जापानीप्रतिनिधिमण्डलस्य यात्रायाः प्रारम्भः साक्षात् कस्यचित् भवनस्य पर्यटनस्थलस्य वा स्थाने स्थानीयसंस्कृतेः जीवन्तानुभवेन अभवत्, इति अत्यन्तं विशेषम् आसीत्। पारम्परिक-स्वागतेन अस्मान् अस्य क्षेत्रस्य समृद्धया संस्कृत्या परिचितान् कृतम्। अनेन कस्यापि स्थानस्य दर्शनात् पूर्वमेव तस्य विषये ज्ञातुं अवगन्तुं च स्वाभाविकी जिज्ञासा उत्पन्ना।

आगरातः प्रारब्धा एषा यात्रा लखनऊ-नगरं पूर्वाञ्चलं च गमिष्यति

आग्रायां पर्यटनस्य संस्कृतेश्च आनन्दम् अनुभूय एतत् जापानीप्रतिनिधिमण्डलं गुरुवासरे सायंकाले राजधानीं लखनऊं प्रति प्रस्थितम्। योगीसर्वकारेण २१ अगस्तदिनाङ्के लखनऊ-नगरस्य इन्दिरागान्धी-प्रतिष्ठाने बृहत्तमस्य पर्यटनकार्यक्रमस्य आयोजनं प्रस्तावितम् अस्ति। अत्र पञ्चाशदधिकैः पर्यटन-सञ्चालकैः, होटलव्यवसायिभिः उद्यमिभिश्च सह महत्त्वपूर्णा गोलमेजसभा भविष्यति।

अस्यां सभया सह पर्यटनप्रदर्शिनी परस्परसहयोगस्य सम्भावनासु संवाद-सत्राणि च आयोजितानि भविष्यन्ति। लखनऊस्य एषः कार्यक्रमः प्रतिनिधि-मण्डलस्य यात्रां केवलं पर्यटनपर्यन्तं सीमितां न कृत्वा आतिथ्यक्षेत्रे संस्थागतसहयोगस्य सम्भावनासु केन्द्रितं करिष्यति। अस्मिन् बौद्धपर्यटनम्, स्वास्थ्यकल्याणपर्यटनम्, सांस्कृतिक-विनिमयः पर्यटकानां कृते नूतनानुभवानां विकासश्च इत्यादिषु महत्त्वपूर्णेषु विषयेषु चर्चा भविष्यति। ततः दलम् उत्तरप्रदेशस्य पूर्वभागस्य यात्रां करिष्यति, यस्मिन् आध्यात्मिकनगरी वाराणसी तथा भारत-जापानयोः शताब्दीनां पुरातनबौद्धसम्बन्धैः सम्बद्धानि महत्त्वपूर्णानि स्थलानि अन्तर्भवन्ति।

उत्तरप्रदेशे पर्यटनाय नूतनः आयामः प्राप्स्यते

पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः उक्तवान् यत् आगरा जापानी-प्रतिनिधिमण्डलस्य उत्तरप्रदेशयात्रायाः प्रथमं पड़ावम् अस्ति। ताजमहलस्य भव्यतायाः साक्षात्कारानन्तरम् अधुना एषा यात्रा प्रतिनिधिमण्डलं प्रदेशस्य तैः विविधैः रंगैः अनुभवैश्च संयोजयिष्यति, ये उत्तरप्रदेशस्य पर्यटनपरिचयं अधिकं व्यापकं कुर्वन्ति। ताजमहलः यद्यपि उत्तरप्रदेशस्य परिचयस्य सर्वाधिकं प्रसिद्धः आकर्षकश्च प्रवेशद्वारम् अस्ति, तथापि अग्रिमा यात्रा प्रदेशस्य विविधतायाः नूतनं चित्रं प्रदर्शयिष्यति। लखनऊ-नगरे जापानीदलम् अवधस्य आतिथ्यसत्कारं स्वादूनि व्यञ्जनानि उत्तमं पर्यटनव्यवस्थां च समीपतः अनुभविष्यति। अपरत्र पूर्वउत्तरप्रदेशस्य यात्रा तान् भारत-जापानयोः शताब्दीनां पुरातनैः बौद्धैः आध्यात्मिकैश्च सम्बन्धैः परिचितान् करिष्यति।

मन्त्री जयवीरसिंहः उक्तवान् यत् अस्माकं प्रयासः अस्ति यत् प्रतिनिधिमण्डलं आगरा-लखनऊ-पूर्वाञ्चलानां एतान् विभिन्नान् पड़ावान् केवलं पृथक्-पृथक् पर्यटनस्थलरूपेण न, अपितु उत्तरप्रदेशस्य व्यापकस्य परस्परसम्बद्धस्य च पर्यटनानुभवस्य रूपेण पश्येत्। अनेन यात्रया जापानीपर्यटकानां संस्थानां च मध्ये उत्तरप्रदेशस्य विषये प्रत्यक्षम् अवगमनं विकसितुं साहाय्यं भविष्यति। भारत-जापानयोः मध्ये पूर्वमेव सुदृढाः सम्बन्धाः सन्ति तथा पर्यटनम् एतेषु सम्बन्धेषु मानवीयं आयामं योजयति। यदि अस्याः यात्रायाः माध्यमेन अधिकाः जापानीपर्यटकाः उत्तरप्रदेशं ज्ञातुं प्रेरिताः भवन्ति, तर्हि एषा यात्रा स्वकीयात् उद्देश्यात् अपि अधिकं सार्थकं परिणामं प्रदास्यति।

निश्चितरूपेण योगीसर्वकारस्य एतेन दूरदर्शी प्रयत्नेन उत्तरप्रदेशः न केवलं विश्वपर्यटनमानचित्रे अधिकं सुदृढरूपेण उद्भासितः भविष्यति, अपितु विदेशी-निवेशस्य रोजगारसृजनस्य च दिशायाम् अपि नूतनान् कीर्तिमानानि स्थापयिष्यति।

Hindusthan Samachar / Divya Ranjan