भागलपुरतः अहमदाबादाय 28 अगस्ततः धाविष्यति 'अमृत भारत एक्सप्रेसयानम्', 36 घंटासु पूर्णा भविष्यति यात्रा
भागलपुरम्, 20 अगस्तमासः (हि.स.)। जिलावासिभ्यः गुजरातं गच्छद्भ्यश्च प्रवासिभ्यः भारतीयरेलवेपक्षतः महत्त्वपूर्णा शुभसूचना अस्ति। भागलपुरतः अहमदाबादपर्यन्तं बहुप्रतीक्षिता नियमितामृतभारतएक्स्प्रेस् रेलयानसेवा, यस्याः रेलयानसङ्ख्या १९४२४ अस्ति, आगामी
फाइल फोटो


भागलपुरम्, 20 अगस्तमासः (हि.स.)।

जिलावासिभ्यः गुजरातं गच्छद्भ्यश्च प्रवासिभ्यः भारतीयरेलवेपक्षतः महत्त्वपूर्णा शुभसूचना अस्ति। भागलपुरतः अहमदाबादपर्यन्तं बहुप्रतीक्षिता नियमितामृतभारतएक्स्प्रेस् रेलयानसेवा, यस्याः रेलयानसङ्ख्या १९४२४ अस्ति, आगामी २८ अगस्तदिनाङ्कात् प्रारभ्यमाणा अस्ति।

आधुनिकसुविधाभिः सम्पन्नमिदं द्रुतगामि रेलयानम् अङ्गप्रदेशं प्रत्यक्षतया पश्चिमभारतस्य प्रमुखक्षेत्रैः सह संयोजयिष्यति। रेलविभागीयाधिकारिभ्यः प्राप्तसूचनानुसारम् इदं नवीनममृतभारतएक्स्प्रेस् रेलयानं प्रत्येकस्मिन् शुक्रवासरे भागलपुररेलस्थानकात् सायं १६:४५ वादने प्रस्थास्यति। इदं रेलयानं सुल्तानगञ्जं, जमालपुरं, किऊल् च अतिक्रम्य आरा जङ्क्शन् इति रेलस्थानकं प्राप्स्यति। ततः अन्यान् प्रमुखरेलस्थानकान् अतिक्रम्य रविवासरे प्रातः ०५:२५ वादने अहमदाबादं प्राप्स्यति। एवं यात्रिकाणां यात्रा केवलं षट्त्रिंशत् घण्टासु सम्पन्ना भविष्यति। प्रत्यागमनेऽपि इदं रेलयानं निर्धारितसमयसारिण्यनुसारम् अहमदाबादतः भागलपुरपर्यन्तं संचालितं भविष्यति।

अमृतभारतएक्स्प्रेस् रेलयानं पूर्णतया ‘पुशपुल्’ इति प्रौद्योगिक्याः आधारेण संचालितम् अस्ति, यस्यां रेलयानस्य अग्रभागे पश्चाद्भागे च उभयत्र रेलयन्त्रे भवतः। अनेन रेलयानस्य गतिप्राप्तौ स्थगने च अल्पः समयः एव अपेक्ष्यते।

रेलयाने एर्गोनॉमिक्-विधिना विनिर्मिताः आरामदायकाः आसन्दाः, चलदूरभाषयन्त्रस्य प्रभारणकेन्द्रस्य समीपे विशेषधारकाः, आधुनिकाः स्वच्छाश्च जैवशौचालयाः, सुरक्षायै परिसीमादृश्यग्राहकैः सह संवेदनाधारिताः प्रणाल्यश्च उपलब्धाः सन्ति।

नूतनरेलसेवायाः प्रारम्भे यात्रिकेषु हर्षस्य लहरिः

अस्मिन् मार्गे नूतनरेलसेवायाः प्रारम्भेन व्यापारिणः, छात्राः, सेवायां नियुक्ताः जनाश्च सर्वाधिकं लाभं प्राप्स्यन्ति। अधुना यावत् अहमदाबादं गन्तुं जनैः पाटलिपुत्रं गन्तव्यं भवति स्म अथवा दीर्घप्रतीक्षासूच्याः समस्यायाः सामना कर्तव्यः भवति स्म। अगस्तमासस्य २८ दिनाङ्कात् प्रारभ्यमाणया अस्याः रेलसेवया भागलपुरस्य आरायाश्च रेलयात्रिषु महान् उत्साहः दृश्यते। टिकट्-आरक्षणस्य प्रक्रिया शीघ्रमेव रेलविभागीयेषु आरक्षणकेन्द्रेषु तथा आईआरसीटीसी-संस्थायाः जालपुटे प्रारप्स्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani