‘वन्दे मातरम्’ इत्यस्य पूर्णगायनात् काङ्ग्रेसस्य निवर्तनं राष्ट्रस्य संविधानस्य च अपमानम् - अनुरागठाकुरः
नवदिल्ली, २० अगस्तमासः (हि.स.)। काङ्ग्रेसकार्यसमित्याः राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य पूर्णगायनात् परिहरणस्य निर्णयं प्रति तीव्रां प्रतिक्रियां व्यक्तीकुर्वन् पूर्वकेन्द्रीयमन्त्री सांसदश्च अनुराग-सिंहठाकुरः उक्तवान् यत् काङ्ग्रेसस्य एषः निर्
भाजपा सांसद अनुराग ठाकुर


नवदिल्ली, २० अगस्तमासः (हि.स.)। काङ्ग्रेसकार्यसमित्याः राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य पूर्णगायनात् परिहरणस्य निर्णयं प्रति तीव्रां प्रतिक्रियां व्यक्तीकुर्वन् पूर्वकेन्द्रीयमन्त्री सांसदश्च अनुराग-सिंहठाकुरः उक्तवान् यत् काङ्ग्रेसस्य एषः निर्णयः सम्पूर्णतया राष्ट्रविरोधिनीं, संविधानविरोधिनीं संसद्विरोधिनीं च मानसिकतां प्रदर्शयति। तुष्टीकरणस्य राजनीतौ निमग्ना काङ्ग्रेसः अधुना राष्ट्रगीतस्य सम्मानमपि राजनैतिकदृष्ट्या द्रष्टुम् आरब्धवती अस्ति।

अनुरागठाकुरः गुरुवासरे वार्तामाध्यमैः सह सम्भाषणसमये उक्तवान् यत् ‘वन्दे मातरम्’ केवलं गीतं न, अपितु भारतस्य स्वातन्त्र्यस्य, राष्ट्रभक्तेः तथा कोटिशः देशवासिनां भावनानां प्रतीकम् अस्ति। स्वातन्त्र्यसङ्ग्रामस्य समये एतदेव ‘वन्दे मातरम्’ देशवासिषु राष्ट्रभावनां स्वाधीनताचेतनां च जागरयितुं कार्यं कृतवान्। तादृशस्य राष्ट्रगीतस्य पूर्णगायनात् काङ्ग्रेसस्य परिहरणम् अत्यन्तं दुर्भाग्यपूर्णम् अस्ति। काङ्ग्रेसेन एतद् अवगन्तव्यं यत् राष्ट्रस्य सम्मानस्य राष्ट्रियप्रतीकानां च विषये राजनीतिः कर्तुं न शक्यते।

तेन उक्तं यत् काङ्ग्रेसः अद्य संविधानस्य कथनं करोति, किन्तु तेन एतदपि स्मर्तव्यं यत् संविधानस्य मूलभावना राष्ट्रस्य एकतां, अखण्डतां नागरिकेषु राष्ट्रिय-चेतनायाः सुदृढीकरणं च भवति। संसदः मध्ये राष्ट्रगीतस्य सम्मानस्य तस्य ऐतिहासिकमहत्त्वस्य च विषये देशस्य भावनानां सम्मानं करणीयं, न तु मतपेटिकाराजकारणस्य कृते तस्मिन् विभाजनकारीदृष्टिकोणस्य अन्वेषणं करणीयम्।

तेन उक्तं यत् ‘वन्दे मातरम्’ इत्यस्य सम्मानं न कस्यचित् दलस्य, जात्याः वा धर्मस्य विषयः, अपितु भारतमातुः १४० कोटिदेशवासिनां च सम्मानस्य विषयः अस्ति। काङ्ग्रेसेन स्वकीयाभ्यः राजनैतिकाभ्यः विवशताभ्यः उपरि उत्थाय राष्ट्रहितस्य राष्ट्रियभावनानां च सम्मानं करणीयम्। भारतस्य जनाः राष्ट्रिय-प्रतीकानाम् अपमानं तुष्टीकरणस्य राजनीतिं च न स्वीकरिष्यन्ति तथा प्रत्येकस्य भारतीयस्य मनसि ‘वन्दे मातरम्’ इत्यस्य सम्मानं सदैव सर्वोच्चं भविष्यति।

Hindusthan Samachar / Divya Ranjan