Enter your Email Address to subscribe to our newsletters

अयोध्या, 20 अगस्तमासः (हि.स.)। श्रीराममन्दिरभवननिर्माणसमित्याः अध्यक्षः नृपेन्द्रमिश्रः बुधवासरे अयोध्यां प्राप्तवान्। सः त्रिदिनानि अयोध्यायां स्थित्वा श्रीराममन्दिरनिर्माणसम्बद्धानां कार्याणां समीक्षां करिष्यति। बुधवासरे सायंकाले निर्माणसमित्याः उपवेशनं कृतवान्। तदनन्तरं गुरुवासरे प्रातः सर्किट हाउसे इति स्थले पत्रकारैः सह वार्तालापं कुर्वन् नृपेन्द्रमिश्रः राममन्दिरपरिसरे प्रचलितस्य निर्माणकार्यस्य प्रगतेः विषये संसूचनां प्रदत्तवान्।
तेन आगामिमासस्य त्रिंशत् दिनाङ्कपर्यन्तं राममन्दिरपरिसरस्य अधिकांशानि निर्माणकार्याणि पूर्णानि भविष्यन्ति इति आशा प्रकटिता। मिश्रः उक्तवान् यत् त्रिंशद् अक्टोबर् दिनाङ्कपर्यन्तं एल् एण्ड टी तथा टाटा इत्यनयोः संस्थयोः कर्मचारीणः निर्माणकार्येभ्यः निवर्तिष्यन्ते। ततः मुख्यतया प्रेक्षागृहस्य संग्रहालयस्य च कार्यं प्रचलिष्यति।
संग्रहालये समग्रतया विंशतिः दीर्घिकाः निर्मीयन्ते, यत्र आधुनिकप्रौद्योगिक्याः प्रयोगः भविष्यति। सप्तमदीर्घिकायां इमर्सिव् टेक्नोलॉजी इत्यस्य माध्यमेन मन्दिरपरिसरस्य दिव्यदर्शनं कारयितुं सज्जता प्रचलति। सप्तदशमदीर्घिकायां भगवान् श्रीरामस्य वनगमनसम्बद्धाः नदीनां च प्रसङ्गाः प्रौद्योगिक्याः माध्यमेन प्रदर्शयिष्यन्ते। संग्रहालयस्य निर्माणकार्ये भारतीयप्रौद्योगिकीसंस्थानस्य मद्रासस्य प्रौद्योगिकिविशेषज्ञाः सहयोगं कुर्वन्ति।
तेन संसूचितं यत् मन्दिरपरिसरस्य प्राकारनिर्माणकार्यं दिसम्बरमासपर्यन्तं पूर्णं भविष्यति इति आशा अस्ति। सुरक्षोपकरणानां स्थापनायै अतिरिक्ततया द्वौ मासौ अपेक्षितौ भविष्यतः। एल् एण्ड टी, टाटा, सोमपुरा इत्यादीनां निर्माणसंस्थानां भुगतानस्य लम्बितकार्याणां च समीक्षा कृता। वर्षस्य अन्तपर्यन्तं निर्माणसम्बद्धं किमपि कार्यम् अपूर्णं न तिष्ठेत् इत्युद्देश्येन एषा समीक्षा कृता।
Hindusthan Samachar / Dheeraj Maithani