Enter your Email Address to subscribe to our newsletters

गुवाहाटी, २० अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा गुरुवासरे राज्यस्य स्वातन्त्र्य-सङ्ग्रामसम्बद्धं ऐतिहासिकं प्रसङ्गं स्मृतवान्। सः उक्तवान् यत् देशस्य स्वातन्त्र्यप्राप्तेः पूर्वमेव जामुगुडीहाट्-प्रदेशस्य साहसिनः असमवासिनः सतिया-आरक्षककेन्द्रे प्रथमवारं राष्ट्रध्वजं उत्तोलितवन्तः।
मुख्यमन्त्री सामाजिकमाध्यमे लिखितवान् यत् वर्षे १९४२ तमे भारते ‘भारतं त्यज’ आन्दोलनस्य समये आङ्ग्लानां ध्वजम् अपसार्य आरक्षककेन्द्रे त्रिवर्णध्वजः उत्तोलितः आसीत्। अस्याः ऐतिहासिकायाः गौरवपूर्णायाः च घटनायाः योगदानं कृतवन्तः सर्वान् साहसिनः असमवासिनः सः श्रद्धया स्मृतवान् तथा च तेषां योगदानस्य विषये गौरवं प्रकटितवान्।
Hindusthan Samachar / Divya Ranjan