Enter your Email Address to subscribe to our newsletters

रायपुरम्, २० अगस्तमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य गुरुवासरे सायंकाले दिल्लीयात्रायै प्रस्थास्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायं ५:४० वादने रायपुरात् दिल्ली इत्यत्र प्रस्थास्यति। सः दिल्ली इत्यत्र रात्रिविश्रामं करिष्यति।
दिल्लीप्रवासस्य अवधौ मुख्यमन्त्री सायः शुक्रवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना, भाजपायाः राष्ट्रियाध्यक्षेन नितिननवीनेन तथा केन्द्रसर्वकारस्य अनेकैः वरिष्ठ-मन्त्रिभिः सह मिलितुं शक्नोति। अस्मिन् अवसरे राज्यस्य विकाससम्बद्धेषु विषयेषु, विविधपरियोजनासु तथा केन्द्र-राज्ययोः समन्वयसम्बद्धेषु विषयेषु चर्चा भवितुं सम्भावना अस्ति।
Hindusthan Samachar / Divya Ranjan