पीएससीमाध्यमेन चितानां56 नूतनानां सिविलन्यायाधीशानां पद स्थापना तथा 15 न्यायिकाधिकारिणां स्थानान्तरणस्य आदेशो निर्गतः
रायपुरम्, 20 अगस्तमासः (हि.स.)।छत्तीसगढोच्चन्यायालयेन राज्यलोकसेवायोगस्य माध्यमेन चयनितानां षट्पञ्चाशत् नूतनसिविलन्यायाधीशानां पदस्थापनस्य तथा पञ्चदश न्यायिकाधिकारिणां स्थानान्तरणस्य आदेशाः निर्गताः सन्ति। एषः आदेशः २०२६ तमस्य वर्षस्य अगस्तमासस्य ए
छत्तीसगढ़ उच्च न्यायालय


उच्च न्यायालय के रजिस्ट्रार जनरल रजनीश श्रीवास्तव द्वारा जारी आदेश की सूची


रायपुरम्, 20 अगस्तमासः (हि.स.)।छत्तीसगढोच्चन्यायालयेन राज्यलोकसेवायोगस्य माध्यमेन चयनितानां षट्पञ्चाशत् नूतनसिविलन्यायाधीशानां पदस्थापनस्य तथा पञ्चदश न्यायिकाधिकारिणां स्थानान्तरणस्य आदेशाः निर्गताः सन्ति। एषः आदेशः २०२६ तमस्य वर्षस्य अगस्तमासस्य एकोनविंशतितमे दिनाङ्के विलम्बितसायंकाले निर्गतः। उच्चन्यायालयस्य महासचिवेन रजनीशश्रीवास्तवेन निर्गतानां विभिन्नानाम् आदेशानाम् अधिसूचनानां च अन्तर्गतं उच्चतरन्यायिकसेवायाः अधोन्यायिकसेवायाश्च अनेकानां न्यायाधीशानां स्थानान्तरणं कृतम् अस्ति।

तदनन्तरं राज्यशासनेन परिवीक्षाधीनरूपेण नियुक्तेभ्यः षट्पञ्चाशत् नूतनेभ्यः सिविलन्यायाधीशेभ्यः कनिष्ठविभागीयन्यायाधीशेभ्यश्च प्रथमं पदस्थापनं प्रदत्तम् अस्ति। एतेभ्यः सर्वेभ्यः नवनियुक्तेभ्यः अधिकारिभ्यः अगस्तमासस्य नवविंशतितमदिनाङ्कपर्यन्तं स्वस्वपदस्थापनास्थले कार्यभारं ग्रहीतुं निर्देशः प्रदत्तः अस्ति।

अपरतः उच्चतरन्यायिकसेवायाः पञ्च न्यायाधीशानां स्थानान्तरणं कृतम् अस्ति। दन्तेवाडापरिवारन्यायालयस्य न्यायाधीशः हरीशकुमारअवस्थी प्रथमः अतिरिक्तजिलान्यायाधीशः सत्रन्यायाधीशश्च रायपुरे नियुक्तः अस्ति। ममतापटेलः अम्बिकापुरतः द्वितीयः अतिरिक्तः सत्रन्यायाधीशश्च बिलासपुरे, ज्योतिअग्रवालः पेण्ड्रारोडतः न्यायाधीशः राजनांदगावे, नमितामिञ्जभास्करः धमतरीतः तथा एन सिंह साहुः राजनांदगावतः अतिरिक्तजिलासत्रन्यायाधीशरूपेण दन्तेवाडायां द्रुतन्यायालये नियुक्तौ स्तः।

अपरं रायपुरस्य प्रथमः अतिरिक्तजिलासत्रन्यायाधीशः नीरजशर्मा अनुसूचितजाति अनुसूचितजनजाति अत्याचारनिवारणाधिनियमान्तर्गतं रायपुरस्य विशेषन्यायालयस्य विशेषन्यायाधीशरूपेण नियुक्तः अस्ति। अम्बिकापुरे कमलेशजगद्दल्लाय अतिरिक्तजिलासत्रन्यायाधीशस्य तथा स्मितारत्नावते अतिरिक्तजिलासत्रन्यायाधीशस्य बालकानां लैङ्गिकअपराधसंरक्षणाधिनियमान्तर्गतस्य न्यायाधीशस्य च दायित्वं प्रदत्तम् अस्ति।

सिविलन्यायाधीशस्य वरिष्ठविभागे सतीशकुमारखाखा प्रतापपुरतः मुख्यन्यायदण्डाधिकारी प्रथमसिविलन्यायाधीशः वरिष्ठविभागश्च मुंगेली इत्यत्र नियुक्तः अस्ति। भगवान्दासपनिका प्रतापपुरे, श्वेतापटेलः छुईखदाने, ईशानव्यासः दुर्गे तथा नीलेशजगद्दल्लाः राजनांदगावे पदस्थापिताः सन्ति।

दुर्गस्य द्वितीयः अतिरिक्तन्यायाधीशः रविकुमारकश्यपः प्रतिनियुक्त्या उच्चन्यायालये विशेषकार्याधिकारीरूपेण नियुक्तः अस्ति। सिविलन्यायाधीशस्य कनिष्ठविभागीयसंवर्गस्य अपि सप्त न्यायाधीशानां स्थानान्तरणं कृतम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani