Enter your Email Address to subscribe to our newsletters

- ५५० प्रशिक्षार्थिभिः सह करिष्यति संवादम्
भोपालम्, १९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरे सन्तशिरोमणिः रविदास-ग्लोबल-स्किल्स-प्राङ्गणे ५५० प्रशिक्षार्थिनाम् अभिमुखीकरणसमारोहे सम्मिलिष्यते। मुख्यमन्त्री ग्लोबल-स्किल्स-प्राङ्गणस्य भ्रमणं करिष्यति। तदनन्तरं शैक्षणिकप्रयोगशालायाः अवलोकनं कृत्वा प्रशिक्षार्थिभिः सह संवादं करिष्यति।
जनसम्पर्काधिकारिणी बबिता मिश्रा इत्यनया उक्तं यत् मुख्यमन्त्री डॉ. यादवः प्रशिक्षणस्य व्यवस्थाः, आधुनिकाः प्राविधिकसुविधाः तथा युवकेभ्यः प्रदीयमानस्य कौशलप्रशिक्षणस्य विवरणं ज्ञास्यति।
तदतिरिक्तं मुख्यमन्त्री डॉ. यादवः उद्योगजगतः वरिष्ठप्रतिनिधिभिः सह मेलनं चर्चां च करिष्यति। कौशलप्रशिक्षणस्य तथा उद्योगानां आवश्यकतानुसारं युवानः सज्जीकर्तुं सम्बद्धेषु विषयेषु अपि विचारविमर्शं करिष्यति।
Hindusthan Samachar / Divya Ranjan