Enter your Email Address to subscribe to our newsletters

शिमला, 20 अगस्तमासः (हि.स.)।
मुख्यमन्त्री ठाकुरसुखविन्दरसिंहसुक्खुः अद्य छोटाशिम्लास्थिते सद्भावनाचौके पूर्वप्रधानमन्त्रिणः स्वर्गीयस्य राजीवगान्धिनः जयन्त्यवसरे तस्मै पुष्पाञ्जलिं समर्पितवान्। तेन प्रदेशवासिभ्यः राजीवगान्धिना प्रदर्शिते मार्गे चलितुं आह्वानं कृतम्।
मुख्यमन्त्री उक्तवान् यत् राजीवगान्धी ‘आधुनिकभारतस्य निर्माता’ इति रूपेण स्मर्यते। तेन राष्ट्रस्य एकतायै अखण्डतायै च स्वजीवनं बलिदत्तम्। मुख्यमन्त्री उक्तवान् यत् देशे सूचनाप्रौद्योगिक्याः क्रान्तिः राजीवगान्धिनः दूरदर्शिनः चिन्तनस्य परिणामः अस्ति, यस्य लाभं वर्तमानस्य युवापीढिः व्यापकतया प्राप्नोति।
अस्मिन् अवसरे मुख्यमन्त्रिणा उपस्थितेभ्यः जनाभ्यः सद्भावनायाः शपथमपि कारिता। ततः परं मुख्यमन्त्रिणा हिमाचलप्रदेशसचिवालयस्य अधिकारिभ्यः कर्मचारिभ्यश्च राष्ट्रियैकतायाः साम्प्रदायिकसौहार्दस्य च शपथः कारितः।
अस्मिन् अवसरे स्वास्थ्यपरिवारकल्याणमन्त्री डॉ. कर्नल् धनीरामशाण्डिलः, शिक्षामन्त्री रोहितठाकुरः, उद्यानिकीमन्त्री जगत्सिंहनेगी, उपमुख्यसचेतकः केवलसिंहपठानिया, विधायकाः सञ्जयअवस्थी, सुरेशकुमारः हरिशजनारथश्च, शिमलानगरनिगमस्य महापौरः सुरेन्द्रचौहानः, हिमाचलप्रदेशराज्यवनविकासनिगमस्य उपाध्यक्षः केहरसिंहखाची, हिमाचलप्रदेशराज्यसहकारीबैङ्कस्य अध्यक्षः देवेन्द्रश्यामः, कैलाशफेडरेशनस्य अध्यक्षः बलदेवठाकुरः, हिमाचलप्रदेशकाङ्ग्रेसकार्यसम्बन्धीनां सहप्रभारी विदितचौधरी, प्रदेशकाङ्ग्रेससमित्याः महासचिवः विनोदजिण्टाश्च अन्ये गणमान्याः जनाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani