मुख्यमंत्री डॉ. यादवः सिंहस्थस्य-2028 अंतगते उज्जैने क्रियते निर्माण कार्याणां निरीक्षणम्
- स्थानीय रहवासिभिः मुख्यमंत्री डॉ. यादवस्य भव्यं स्वागतं कृतम् - मुख्यमंत्री डॉ. यादवो भगवान श्री चिंता हरण गणेशस्य दर्शनं कृत्वा अगृह्णात् आशीर्वादम् भोपालम्, 20 अगस्तमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः गुरुवासरे उज्जयिन्
मुख्यमंत्री डॉ. मोहन यादव ने उज्जैन में सती गेट पर राजसी सवारी मार्ग का निरीक्षण किया


- स्थानीय रहवासिभिः मुख्यमंत्री डॉ. यादवस्य भव्यं स्वागतं कृतम्

- मुख्यमंत्री डॉ. यादवो भगवान श्री चिंता हरण गणेशस्य दर्शनं कृत्वा अगृह्णात् आशीर्वादम्

भोपालम्, 20 अगस्तमासः (हि.स.) ।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः गुरुवासरे उज्जयिन्यां सिंहस्थ २०२८ इत्यस्य अन्तर्गतं सतीद्वारतः गोपालमन्दिरपर्यन्तं क्रियमाणस्य मार्गविस्तारकार्यस्य अवलोकनं कृतवान्। मुख्यमन्त्रिणे डॉ. यादवाय निर्माणकार्यस्य योजनायाः विषये संसूचना प्रदत्ता। मुख्यमन्त्री डॉ. यादवः श्रीचिन्ताहरणगणेशभगवतः दर्शनं कृत्वा आशीर्वादं प्राप्तवान्।

मुख्यमन्त्रिणा डॉ. यादवेन कण्ठालचतुष्पथस्य प्राचीनस्य श्रीसतीमातामन्दिरद्वारस्य च प्रस्तावितविकासकार्याणां प्रारूपस्य अवलोकनमपि कृतम्। मुख्यमन्त्री डॉ. यादवः सतीद्वारतः छोटासराफाचतुष्पथपर्यन्तं पद्भ्यां भ्रमणं कृत्वा मार्गविस्तारकार्यस्य अवलोकनं कृतवान्। अस्मिन् समये जिलाधिकारी रोशनकुमारसिंहः नगरनिगमस्य आयुक्तः अभिलाषमिश्रश्च विकासकार्ययोजनायाः विषये संसूचनां प्रदत्तवन्तौ।

अस्मिन् अवसरे सांसदः अनिलफिरोजिया, राज्यसभासांसदः बालयोगीसन्तः उमेशनाथमहाराजः, महापौरः मुकेशटटवालः, विधायकः अनिलजैनकालूहेडा, उज्जयिनीविकासप्राधिकरणस्य अध्यक्षः रविसोलङ्की, नगराध्यक्षः सञ्जयअग्रवालः, मेलाप्राधिकरणस्य अध्यक्षः जगदीशअग्रवालः इत्यादयः जनप्रतिनिधयः प्रशासनिकाधिकारिणश्च उपस्थिताः आसन्।

उल्लेखनीयं यत् सिंहस्थ २०२८ महापर्वणः कृते कण्ठालचतुष्पथतः छत्रीचतुष्पथपर्यन्तं कुलं चत्वारिंशदधिकचतुःशतम् अर्थात् ४१० मीटर् दीर्घे मार्गे विस्तारीकरणकार्यस्य अन्तर्गतं मार्गः पञ्चदशमीटर् विस्तृतः क्रियते। निर्माणकार्यस्य समये कण्ठालचतुष्पथे पञ्चशतम् वर्गमीटर् क्षेत्रे पेवरब्लॉक इति प्रस्तरखण्डान् स्थापयित्वा सौन्दर्यीकरणकार्यं क्रियते। अपरतः प्राचीनस्य श्रीसतीमातामन्दिरद्वारस्यापि सौन्दर्यीकरणं करिष्यते।

कुलस्य ४१० मीटर् दीर्घस्य मार्गस्य त्रिशतदशमीटर् पर्यन्तं पीसीसीमार्गनिर्माणकार्यं पूर्णं जातम् अस्ति। कण्ठालचतुष्पथतः छत्रीचतुष्पथपर्यन्तं क्रियमाणे मार्गविस्तारकार्ये स्थानीयैः निवासिभिः आपणिकैश्च स्वेच्छया स्वगृहाणां दुकानानां च निर्माणं भङ्क्त्वा मार्गविस्तारकार्ये सहयोगः प्रदीयते।

---------------

Hindusthan Samachar / Dheeraj Maithani