Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 20 अगस्तमासः (हि.स.)।समाजकल्याणसचिवः डॉ. श्रीधरबाबू अद्वाङ्की समाजकल्याणविभागेन सञ्चालितस्य जिलादिव्याङ्गजनपुनर्वासकेन्द्रस्य, गांधीशताब्दीजिलाचिकित्सालयस्य च निरीक्षणम् अकरोत्। तेन केन्द्रे दिव्याङ्गजनेभ्यः उपलब्ध्यमानानां सेवानां सुविधानां च विषये सूचना प्राप्ता तथा व्यवस्थायाः निरीक्षणं कृतम्।
निरीक्षणसमये सचिवेन दिव्याङ्गजनानां पञ्जीकरणस्य, मूल्याङ्कनस्य, परामर्शस्य, पुनर्वाससेवानां तथा सहायकसाधनानां प्रदायसम्बद्धानां कार्याणां सूचना प्राप्ता। तेन केन्द्रे उपलब्धानाम् अभिलेखानां विभिन्नगतिविधीनां च अवलोकनम् अपि कृतम् तथा सम्बन्धितेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च आवश्यकाः निर्देशाः प्रदत्ताः।
सचिवेन निर्देशितं यत् केन्द्रम् आगच्छद्भ्यः दिव्याङ्गजनेभ्यः शासनस्य विभिन्नानां योजनानां पुनर्वाससेवानां च समयबद्धः गुणवत्तापूर्णः सुगमश्च लाभः सुनिश्चितः क्रियताम्। सः अवदत् यत् दिव्याङ्गजनानां समाजस्य मुख्यधारया सह संयोजनं सर्वकारस्य प्राथमिकतासु अन्तर्भवति। अतः विभागीययोजनानां प्रभावपूर्णं क्रियान्वयनं कुर्वद्भिः पात्रलाभार्थिभ्यः सेवासुविधानां च प्राप्तिः वर्धनीया।
तेन केन्द्रस्य व्यवस्थाः अधिकं सुदृढाः दिव्याङ्गजनहितैषिण्यश्च कर्तुं विशेषं बलं दत्तम्। तत्सह दिव्याङ्गजनेभ्यः उत्तमसेवानां प्रदाने आवश्यकसंसाधनानां व्यवस्थायाश्च समुचितोपयोगः सुनिश्चितः क्रियताम् इति निर्देशाः प्रदत्ताः।
निरीक्षणसमये जिलासमाजकल्याणाधिकारी दीपाङ्करघिल्डियालः, एसीएमओ डॉ. चौहानः, जिलादिव्याङ्गजनपुनर्वासकेन्द्रस्य कर्मचारीगणः तथा गांधीशताब्दीजिलाचिकित्सालयस्य सम्बन्धिताः अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
----
Hindusthan Samachar / Dheeraj Maithani