असमस्य मुख्यमन्त्री सरमा अगस्तमासस्य 25 दिनाङ्के करिष्यति 'ग्रिट-एंड-ग्लोरी' पुस्तकस्य विमोचनम्
नवदिल्ली, 20 अगस्तमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य तत्सम्बद्धानां विविधानां संगठनानां च कार्याणां माध्यमेन असमराज्येन सह देशस्य पूर्वोत्तरक्षेत्रे सामाजिकस्य सांस्कृतिकस्य च परिवर्तनस्य ज्ञानं ददत्याः आंग्लभाषायाः पुस्तकस्य ''ग्रिट्-एण्ड्-ग्ल
पुस्तक विमोचन का आमंत्रण पत्र


नवदिल्ली, 20 अगस्तमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य तत्सम्बद्धानां विविधानां संगठनानां च कार्याणां माध्यमेन असमराज्येन सह देशस्य पूर्वोत्तरक्षेत्रे सामाजिकस्य सांस्कृतिकस्य च परिवर्तनस्य ज्ञानं ददत्याः आंग्लभाषायाः पुस्तकस्य 'ग्रिट्-एण्ड्-ग्लोरी' विमोचनं संघस्य दिल्लीस्थिते मुख्यालये केशवकुञ्जे अगस्तमासे 25 दिनाङ्के करिष्यते। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा-महोदयः मुख्यातिथिरूपेण पाञ्चजन्यस्य सम्पादकः हितेशशंकर-महोदयः च विशिष्टातिथिरूपेण कार्यक्रमे उपस्थितौ स्थास्यतः।

कार्यक्रमस्य आयोजकानाम् अनुसारम् आंग्लभाषायां लिखितस्य पुस्तकस्य 'ग्रिट्-एण्ड्-ग्लोरी' लेखकः अभिजीत्जोग-महोदयः अस्ति। पुस्तकं सुरुचिप्रकाशनेन प्रकाशितम्। असमराज्यस्य विविधेषु क्षेत्रेषु 1965 तः 71 यावत् राष्ट्रीयस्वयंसेवकसंघस्य प्रचारकः आसीत् हरिभाऊमिरासदार-महोदयस्य अस्य पुस्तकस्य सामग्रीसंकलने महत्त्वपूर्णा भूमिका अस्ति। तेन सम्पूर्णराज्ये न्यूनातिन्यूनं 175 कार्यकर्तॄणां साक्षात्कारः गृहीतः, अन्यत् ज्ञानम् अपि सङ्कलितम्।

हरिभाऊमिरासदार-महोदयः हिन्दुस्थानसमाचाराय अकथयत् यत् अस्मिन् पुस्तके संघस्य तस्य विविधानां संगठनानां च पूर्वोत्तरक्षेत्रे कृतानां कार्याणां माध्यमेन सामाजिकस्य सांस्कृतिकस्य च परिवर्तनस्य संक्षिप्तरूपेण उल्लेखः अस्ति। तेन सह तेषां 62 कार्यकर्तॄणां साक्षात्कारः अपि दत्तः, यैः असमराज्ये संघकार्यस्य विस्तारे महत्त्वपूर्णं योगदानं दत्तम्।

मिरासदार-महोदयस्य अनुसारम् असमराज्यसहितेषु पूर्वोत्तरक्षेत्रेषु संघकार्यस्य माध्यमेन आगतस्य सांस्कृतिकपरिवर्तनस्य, अस्मिन् च कार्यकर्तॄणां योगदानस्य कथनं कुर्वन्ती कोऽपि आधिकारिकं पुस्तकं नासीत्। इदं पुस्तकं केवलम् अस्मिन् न्यूनतापूरणस्य एकः प्रयासः अस्ति। अस्य आधारेण वयं ज्ञातुं शक्ष्यामः यत् असमराज्ये अन्येषु च क्षेत्रेषु संघकार्यस्य विस्तारानन्तरं क्षेत्रे कीदृशं सामाजिकं सांस्कृतिकं च परिवर्तनम् अभवत्, अस्मिन् च काः विभूतयः योगदानं दत्तवत्यः।

इदं पुस्तकम् आंग्लभाषायाः अनन्तरं मराठी-हिन्दी-असमीभाषासु अपि शीघ्रं प्रकाशयिष्यते।

--------------

Hindusthan Samachar / अंशु गुप्ता