Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 अगस्तमासः (हि.स.)।
दिल्लीनगरस्य मुख्यमन्त्री रेखागुप्ता गुरुवासरे मोतीनगरविधानसभाक्षेत्रे ‘द मदन लाल खुराना फाउण्डेशन’ इत्यनेन स्थापितस्य जनकौशलकेन्द्रस्य स्वयं स्वास्थ्यकेन्द्रस्य च उद्घाटनं कृतवती। मुख्यमन्त्री सामाजिकमाध्यमस्य एक्स इत्यस्य खाते प्रकाशिते सन्देशे उक्तवती यत् एते केन्द्रे युवजनान् कृत्रिमबुद्धिमत्तया आधुनिककौशलैश्च सशक्तान् करिष्यतः तथा नागरिकान् श्रेष्ठतरस्वास्थ्यसुविधाभिः सह योजयिष्यतः। जनसेवायाः एष एव भावः स्वर्गीयस्य मदनलालखुराणस्य सुखिनः सशक्तस्य च दिल्लीप्रदेशस्य स्वप्नं अग्रे वर्धयति। सा अस्याः प्रेरणादायिन्याः पहलस्य कृते विधायकं हरीशखुराणं साधुवादेन अभिनन्दितवती।
अस्मिन् अवसरे सांसद् बांसुरीस्वराज्, विधायकः उमङ्गबजाजः, जिलाध्यक्षः वीरेन्द्रबब्बरश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani