भारतम् अफगानिस्तानाय प्रेषितवत् चिकित्सा सहायताम्
नवदिल्ली, 20 अगस्तमासः (हि.स.)। भारतं मानवीय सहाय्यार्थं गुरुवासरे अफगानिस्तानाय आवश्यकौषधानां चिकित्सासामग्रीणां च नूतनं प्रेषणं कृतवत्। इयं सहायता काबुलनगरे स्थिताय एकस्मै सर्वकारीय चिकित्सालयाय समर्पिता अस्ति। विदेशमन्त्रालयस्य अनुसारं भारतम्
भारत से अफगानिस्तान को चिकित्सीय सहायता मिली ।


नवदिल्ली, 20 अगस्तमासः (हि.स.)।

भारतं मानवीय सहाय्यार्थं गुरुवासरे अफगानिस्तानाय आवश्यकौषधानां चिकित्सासामग्रीणां च नूतनं प्रेषणं कृतवत्। इयं सहायता काबुलनगरे स्थिताय एकस्मै सर्वकारीय चिकित्सालयाय समर्पिता अस्ति। विदेशमन्त्रालयस्य अनुसारं भारतम् अफगानिस्तानस्य नागरिकैः सह स्वकीयां दीर्घकालिकां सुदृढां च स्वास्थ्यसहकारिता पुनः प्रतिपादयन् एतत् पदक्षेपं गृहीतवान्। अस्याः पहलस्य प्रमुखः उद्देश्यः अफगानिस्तानस्य स्वास्थ्यसेवानां सुदृढीकरणं तथा स्थानीयनागरिकेभ्यः मूलभूतस्वास्थ्यसुविधानां प्रदनम् अस्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani