लद्दाखस्य उपराज्यपालेन प्रधानमन्त्रिणः साक्षात्कारः, विकासपरियोजनानां विषये सूचना प्रदत्ता
नवदिल्ली, २० अगस्तमासः (हि.स.)। लद्दाखस्य उपराज्यपालः विनयकुमार-सक्सेना गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः साक्षात्कारं कृत्वा केन्द्रशासितप्रदेशे प्रचलितानां प्रमुख-विकासप्रयत्नानां, आधारभूत-संरचना-परियोजनानां तथा केन्द्र-सर्वकारस्य कल्याणका
लद्दाख के उपराज्यपाल विनय कुमार सक्सेना गुरुवार को प्रधानमंत्री नरेन्द्र मोदी से मुलाकात के दौरान


नवदिल्ली, २० अगस्तमासः (हि.स.)। लद्दाखस्य उपराज्यपालः विनयकुमार-सक्सेना गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः साक्षात्कारं कृत्वा केन्द्रशासितप्रदेशे प्रचलितानां प्रमुख-विकासप्रयत्नानां, आधारभूत-संरचना-परियोजनानां तथा केन्द्र-सर्वकारस्य कल्याणकारीयोजनानां कार्यान्वयनस्य विषये सूचनां प्रदत्तवान्।

प्रधानमन्त्रिकार्यालयेन लद्दाखस्य उप-राज्यपालस्य विनयकुमारसक्सेनस्य प्रधान-मन्त्रिणः नरेन्द्रमोदिनः च साक्षात्कारस्य चित्राणि सामाजिक-माध्यममञ्चे ‘एक्स’ इत्यत्र सहभागकृत्य एषा सूचना प्रदत्ता।

लद्दाखस्य उपराज्यपालः सक्सेना ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तवान् यत् प्रधानमन्त्रिणः साक्षात्कारः तस्य कृते सम्मानस्य विषयः अस्ति। सः प्रधानमन्त्रिणं लद्दाखे प्रमुखविकासप्रयत्नानां, आधार-भूतसंरचनापरियोजनानां प्रगतेः तथा केन्द्रसर्वकारस्य कल्याणकारीयोजनानां कार्यान्वयनस्य विषये अवगतं कारितवान्। सः लद्दाखस्य समावेशिनः सततस्य च विकासाय प्रधानमन्त्रिणः दृष्टिकोणस्य, निरन्तरमार्गदर्शनस्य सहयोगस्य च कृते कृतज्ञतां प्रकटितवान्।

Hindusthan Samachar / Divya Ranjan