Enter your Email Address to subscribe to our newsletters




पीथमपुरे ८५० कोटिरूप्यकाणां निवेशेन निर्मितयोः द्वयोः अत्याधुनिकयोः विनिर्माणैक-कयोः शुभारम्भः
भोपालम्, २० अगस्तमासः (हि.स.)। केन्द्रीयपर्यटन-संस्कृतिमन्त्री गजेन्द्रसिंहशेखावतः उक्तवान् यत् पीथमपुरे बैटरी-भण्डारण-संयन्त्रस्य तथा प्रकाशीय-तन्तु-केबलस्य पश्चसमेकनस्य अन्तर्गतं मूलनिर्माणैककस्य च शुभारम्भः मध्यप्रदेशस्य औद्योगिकविकासाय महत्त्वपूर्णा उपलब्धिः अस्ति। उभयोः एककयोः प्रायः ८५० कोटिरूप्यकाणां निवेशः कृतः अस्ति। तेन उक्तं यत् एते नूतने एकके केवलं द्वयोः निर्माण्योः उद्घाटनं न, अपितु भारतस्य तीव्रतया परिवर्तमानस्य औद्योगिकपरिदृश्यस्य आत्मनिर्भरभारतस्य च सङ्कल्पस्य प्रतीके स्तः।
केन्द्रीयमन्त्री शेखावतः गुरुवासरे मध्यप्रदेशस्य धाराजनपदे स्थिते पीथमपुर-औद्योगिकक्षेत्रे स्थापितयोः द्वयोः आधुनिकयोः औद्योगिकैककयोः शुभारम्भकार्यक्रमं सम्बोधयति स्म। मुख्यमन्त्री डॉ. मोहनयादवः केन्द्रीयमन्त्री शेखावतश्च मध्यप्रदेशस्य बृहत्तमायाः औद्योगिकनगरी पीथमपुरस्य स्मार्ट-इण्डस्ट्रियल-पार्क इत्यत्र ८५० कोटिरूप्यकाणां निवेशेन प्रताप-समूहेन स्थापितयोः द्वयोः अत्याधुनिकयोः विनिर्माणैककयोः—कॉर्सिस-इण्डस्ट्रीज् तथा वाल्टर्स-टेक्नोलॉजी—शुभारम्भं कृतवन्तौ। एताभ्याम् एककाभ्यां शताधिकेभ्यः युवभ्यः रोजगारस्य नूतनाः अवसराः प्राप्स्यन्ति।
केन्द्रीयमन्त्री उक्तवान् यत् बैटरी-भण्डारण-संयन्त्रं देशस्य वर्धमानानाम् हरितऊर्जायाः आवश्यकतानां पूर्तौ महत्त्वपूर्णां भूमिकां निर्वक्ष्यति, यदा तु प्रकाशीयतन्तु-एककं अङ्कीयसम्पर्कं सञ्चार-अधोसंरचनां च सुदृढं करिष्यति। ऊर्जाभण्डारणम् अद्यतनस्य महत्तमासु आवश्यकतासु अन्यतमम् अस्ति तथा पीथमपुरस्य एतद् एककं निर्बाध-विद्युत्प्रदायस्य दिशि महत्त्वपूर्णं पदम् अस्ति। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विगतेषु द्वादशवर्षेषु भारतस्य विनिर्माणक्षेत्रे आमूलचूलं परिवर्तनं जातम् अस्ति। भारतः अधुना वैश्विकविनिर्माणे आपूर्तिशृङ्खलायां च स्वकीयां सुदृढां भूमिकां निर्माति। इलेक्ट्रॉनिक्स-मोबाइल-निर्माणयोः क्षेत्रयोः देशेन उल्लेखनीया प्रगतिः कृता अस्ति।
तेन सूचितं यत् अस्य समूहस्य विभिन्नैः प्रयासैः प्रायः ३० सहस्रं जनाः प्रत्यक्षाप्रत्यक्षरूपेण रोजगारं प्राप्नुवन्ति। समूहेन स्थापितेषु कौशलविकासकेन्द्रेषु सम्प्रति २ सहस्राधिकाः युवानः प्रशिक्षणं प्राप्नुवन्ति तथा आगामिकाले प्रायः ५ सहस्रयुवभ्यः रोजगारं प्रदातुं दिशि कार्यं क्रियते।
तेन उक्तं यत् मध्यप्रदेशे पर्याप्तविद्युत्, जलम्, उत्तममार्गाः, रसद-अधोसंरचना तथा निवेशानुकूलनीतिनां कारणेन औद्योगिकविकासस्य अपाराः सम्भावनाः सन्ति। दिल्ली-मुम्बई-औद्योगिकगलियारा तथा उत्तमाः द्रुतमार्गसम्पर्काः प्रदेशं देशस्य प्रमुखम् औद्योगिककेन्द्ररूपेण स्थापयितुं सहायकाः भवन्ति।
केन्द्रीयमन्त्री शेखावतेन मुख्यमन्त्रिणः डॉ. यादवस्य नेतृत्वे प्रदेशे निवेशस्य उद्योगानां च प्रोत्साहनाय क्रियमाणानां प्रयासानां प्रशंसा कृता। तेन उक्तं यत् पर्यटनस्य आतिथ्यसत्कारक्षेत्रस्य च विकासे अपि मध्यप्रदेशः तीव्रगत्या अग्रे गच्छति। राज्ये निवेशप्रोत्साहनाय क्रियमाणै: प्रयत्नै: बहुसंख्याकाः निवेशप्रस्तावाः प्राप्यन्ते। तेन विश्वासः व्यक्तः यत् पीथमपुरस्य उभे एकके मध्यप्रदेशस्य औद्योगिकविकासं, रोजगार-सृजनं, ऊर्जाक्षेत्रे आत्मनिर्भरतां तथा अङ्कीयाधोसंरचनां च नूतनां गतिं प्रदास्यतः तथा विकसितभारतस्य निर्माणे प्रदेशस्य महत्त्वपूर्णां भूमिकां अधिकं सुदृढं करिष्यतः।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशः अद्य विकासस्य आत्मनिर्भरतायाश्च नूतनयुगे प्रवेशं करोति। वर्ष २०१४-पूर्वस्य भारतस्य तदनन्तरस्य च भारतस्य मध्ये स्पष्टः भेदः दृश्यते। अद्य भारतस्य नवीनं स्वरूपं सम्पूर्णस्य विश्वस्य समक्षम् उदितम् अस्ति। मध्यप्रदेशः अपि अस्यां विकासयात्रायां पदे पदे सह गच्छन् अग्रे वर्धते। नवीनैः औद्योगिकैककैः युवभ्यः रोजगारं प्रदातुं कार्यं तीव्रगत्या क्रियते। तेन उक्तं यत् अद्य प्रारब्धानि नवीनानि औद्योगिकैककानि विकासस्य समृद्धेश्च नूतनां धाराम् अग्रे नेष्यन्ति।
युवभ्यः रोजगारप्रदानं सर्वकारस्य सर्वोच्चा प्राथमिकता
मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् अद्य प्रारब्धे उभे एकके उच्चप्रौद्योगिकी-आधारितविनिर्माणस्य स्वच्छऊर्जायाश्च क्षेत्रे मध्यप्रदेशस्य औद्योगिकक्षमतां अधिकं सुदृढं करिष्यतः। तेन उक्तं यत् अद्यतने समये युवभ्यः अधिकाधिकान् रोजगारा-वसरान् उपलब्धान् कर्तुं अर्थव्यवस्थां च सुदृढां कर्तुं सर्वाधिकम् आवश्यकता अस्ति। भारतः विश्वस्य सर्वाधिकयुवाजन-संख्यायुक्तं राष्ट्रम् अस्ति तथा मध्यप्रदेशः अपि युवशक्त्या समृद्धः अस्ति। युवानां ऊर्जायाः प्रतिभायाश्च उपयोगाय बृहद्प्रमाणेन रोजगारा-वसरानाम् उपलब्धता आवश्यकम् अस्ति। तेन उक्तं यत् प्रकाशीयतन्तु-लिथियम्-बैटरी इत्याद्याः आधुनिक-प्रौद्योगिकीसम्बद्धानाम् औद्योगिकैककानां स्थापना भविष्यस्य आवश्यकतानां दृष्ट्या महत्त्वपूर्णं पदम् अस्ति। जर्मनप्रौद्योगिक्याः सहयोगेन स्थापितानि एतानि एककानि अन्ताष्ट्रिय-स्तरस्य प्रौद्योगिक्याः उत्पादनक्षमतायाश्च केन्द्राणि भविष्यन्ति। एतेषाम् उद्योगानां माध्यमेन प्रदेशस्य युवभ्यः आधुनिकप्रौद्योगिक्याः प्रशिक्षण-मपि प्राप्स्यते तथा तेभ्यः रोजगारस्य नूतनाः अवसराः उपलब्धाः भविष्यन्ति।
तेन उक्तं यत् औद्योगिकैककेषु यूनां प्रशिक्षणस्य पर्याप्ता व्यवस्था कृता अस्ति। एताभिः औद्योगिकक्रियाभिः प्रत्यक्षा-प्रत्यक्षरूपेण जनानां कृते रोजगारस्य अवसराः सृज्यन्ते, तस्य आरम्भः अपि जातः अस्ति। तेन उक्तं यत् प्रदेशसर्वकारस्य प्रयासः अस्ति यत् निवेशेन सह रोजगारस्य अवसराः अपि शीघ्रं वर्धेरन्, येन प्रदेशस्य आर्थिकसमृद्धेः नूतना गतिः भवेत्।
सर्वेषु क्षेत्रेषु उद्योगेभ्यः सर्वकारस्य सहयोगः
मुख्यमन्त्री उक्तवान् यत् मध्यप्रदेश-सर्वकारः उद्योगेभ्यः सर्वसम्भवसहायतां प्रददाति। रोजगारप्रदानाभ्यः औद्योगिकै-ककेभ्यः सर्वकारेण प्रतिश्रमिकं ५ सहस्ररूप्यकाणि यावत् साहाय्यस्य प्रावधानं कृतम् अस्ति। तेन सह विद्युत्, जलम्, मार्गाः अन्याः आवश्यकाः अधोसंरचनाश्च उपलब्धं कारयितुं विशेषं ध्यानं दीयते।
औद्योगिकविकासेन मध्यप्रदेशाय नूतन: परिचय: प्राप्यते
तेन उक्तं यत् विगते एकमासे द्वितीयवारं प्रदेशस्य पीथमपुराय नवीनानाम् औद्योगिकैककानां सौगातं प्राप्तम्, यत् सर्वकारस्य शीघ्रगत्या रोजगारावसरान् उपलब्धान् कर्तुं क्रियमाणानां प्रयासानां परिणामः अस्ति। तेन उक्तं यत् मध्यप्रदेशे निवेशस्य वातावरणं निरन्तरं सुधार: भवति तथा नवीनानाम् उद्योगानां स्थापनया प्रदेशस्य अर्थव्यवस्था सुदृढा भविष्यति, युवभ्यश्च रोजगारस्य व्यापकाः अवसराः सृज्यन्ते। तेन नवीनानाम् औद्योगिकै-ककानां स्थापनायै उद्योगसमूहाय तेन सम्बद्धेभ्यः सर्वेभ्यश्च अभिनन्दनानि शुभकामनाश्च प्रदत्तानि।
मुख्यमन्त्री उक्तवान् यत् उद्योगानां विस्तारेण सह मध्यप्रदेशः विकासस्य नूतनानि शिखराणि स्प्रक्ष्यति। तेन उक्तं यत् नवीनैः औद्योगिकैककैः प्रदेशे रोजगारस्य नूतनाः अवसराः सृज्यन्ते, आधुनिक-प्रौद्योगिक्याः प्रोत्साहनं भविष्यति तथा मध्यप्रदेशः आर्थिकसमृद्धेः दिशि तीव्रगत्या अग्रे गमिष्यति।
कार्यक्रमस्य प्रारम्भे प्रताप-समूहस्य देवेन्द्रसिंहशेखावतेन औद्योगिकैककानां विषये सूचना प्रदत्ता। तेन उक्तं यत् पीथमपुरस्य प्लॉट-संख्या ९८ इत्यत्र कॉर्सिस्-इण्डस्ट्रीज्-संस्थया अत्याधुनिकं प्रकाशीयतन्तु-निर्माणसंयन्त्रं स्थापितम् अस्ति। प्रायः ८,०६७ वर्गमीटरमिते क्षेत्रे स्थापितस्य अस्य संयन्त्रस्य वार्षिकी उत्पादनक्षमता ५.५ मिलियन-फाइबर-किलोमीटर अस्ति। एककेन प्रायः ३०० प्रत्यक्षाप्रत्यक्षरोजगारस्य नूतनाः अवसराः प्रदत्ताः सन्ति।
अस्मिन् संयन्त्रे निर्मितस्य प्रकाशीयतन्तोः उपयोगः ब्रॉडबैण्ड-सम्पर्के, ५-जी-जाले, एफ.टी.टी.एच.-प्रणाल्यां, दत्तांशकेन्द्रेषु, स्मार्ट-नगरेषु, रक्षाक्षेत्रे अन्येषु च रणनीतिकसञ्चार-अधोसंरचनाक्षेत्रेषु भविष्यति। एषा परियोजना अङ्कीय-सम्पर्कस्य विस्तारेण सह डिजिटल-इण्डिया, मेक-इन-इण्डिया तथा आत्मनिर्भरभारतस्य उद्देश्यान् गतिं प्रदास्यति।
वाल्टर्स््-टेक्नोलॉजीज-प्राइवेट्-लिमिटेड्-संस्थया प्रायः २०,५०५ वर्गमीटरमिते क्षेत्रे स्थापितस्य अस्य संयन्त्रस्य उत्पादनक्षमता ३ गीगावाट्-आवर्स अस्ति तथा अनेन प्रायः २५० प्रत्यक्षाप्रत्यक्षरोजगाराः सृज्येरन् इति सम्भावना अस्ति। संयन्त्रे इण्डस्ट्री-४.०-आधारितस्वचालनस्य रोबोटिक्-असेम्बली-रेखायाश्च उपयोगः कृतः अस्ति। एतद् एककं नवीकरणीयऊर्जायाः एकीकरणे, वाणिज्यिकेषु औद्योगिकेषु च अनुप्रयोगेषु तथा भारतस्य स्वच्छऊर्जा-परिवर्तने महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
अस्मिन् अवसरे विधायकाः नीना-वर्मा, निलेश-भारती, प्रताप-समूहस्य अध्यक्षः देवेन्द्रसिंहशेखावतः, मानकुंवरः, डॉ. जितेन्द्रसिंहशेखावतः, प्रताप-समूहस्य प्रबन्धनिदेशकः शक्तिसिंहः, मोहन-शेखावतः, प्रपन्नः इत्यादयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan