Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० अगस्तमासः (हि.स.)। मुख्यमन्त्रिणी रेखा-गुप्ता ‘दिल्ली-मास्टर-प्लान-२०४७’ इत्येतत् ‘विकसित-दिल्ली’ इत्यस्य मार्गचित्रम् उक्तवती। सा मास्टर-प्लान-२०४७ इत्यस्य कृते प्रधानमन्त्रिणः नरेन्द्रमोदिनः, गृहमन्त्रिणः अमितशाहस्य तथा केन्द्रीयमन्त्रिणः मनोहरलालखट्टरस्य च दिल्लीवासिनां पक्षतः हृदयपूर्वकं कृतज्ञतां प्रकटितवती।
मुख्यमन्त्रिणी गुरुवासरे अत्र नेशनल-मीडिया-सेन्टर इत्यत्र आयोजितं वार्ताहरसम्मेलनं सम्बोधयन्ती उक्तवती यत् एषः मास्टर-प्लान इति विकसित-दिल्ली इत्यस्य सम्पूर्णं मार्गचित्रम् अस्ति तथा च अस्माकं भाविवंशानां कृते सुव्यवस्थितायाः, सुविधाजनकायाः उत्तमायाश्च दिल्ली-नगर्याः आश्वासनम् अस्ति।
मुख्यमन्त्रिणी उक्तवती यत् अद्य दिल्ली-नगरस्य सुनियोजितस्य, समग्रस्य भविष्यकेन्द्रितस्य च विकासस्य दिशि ऐतिहासिकं पदम् अग्रे स्थापितम् अस्ति। सा उक्तवती यत् ‘दिल्ली-मास्टर-प्लान-२०४७’ केवलं तथ्यं न, अपितु दिल्ली-नगरस्य सर्वाङ्गीणविकासाय सज्जीकृतं व्यापकं मार्गचित्रम् अस्ति, यत् राजधानीनगरस्य वर्तमानाः समस्याः ध्याने निधाय भविष्यस्य आवश्यकतानाम् अनुरूपं विकासस्य दिशां निर्धारयिष्यति। सा उक्तवती यत् केन्द्रसर्वकारस्य दिल्लीसर्वकारस्य च मध्ये उत्तमसमन्वयेन दिल्ली-नगरस्य विकासाय नूतना गतिः प्राप्यते तथा मास्टर-प्लान-२०४७ अस्य सहयोगस्य महत्त्वपूर्णं फलम् अस्ति।
मुख्यमन्त्रिणी उक्तवती यत् दिल्ली एतादृशी राजधानी अस्ति, यस्याः जनसंख्या निरन्तरं वर्धते, यदा तु तस्याः भूक्षेत्रं सीमितम् अस्ति। प्रायः १,४८४ वर्गकिलोमीटरमिते सीमिते दिल्ली-नगरे वर्धमानजनसंख्या, परिवहनम्, प्रदूषणम्, आवासः, आधारभूतसुविधाः च सम्बन्धिन्यः अनेकाः समस्याः सन्ति। सा उक्तवती यत् एतासां सीमितताः सन्त्यपि मास्टर-प्लान-२०४७ इत्यस्मिन् दिल्ली-नगरस्य प्रत्येकं क्षेत्रं प्रत्येकं वर्गं च ध्याने निधाय विकासस्य व्यापकं योजनं सज्जीकृतम् अस्ति। अस्मिन् ग्रामीणक्षेत्राणि, अनधिकृताः आवासीयवसतयः, आवासीय-क्षेत्राणि, झुग्गीवसतयः, विपण्यः, न्यूनजनघनत्वयुक्तानि क्षेत्राणि, शैक्षणिकं स्वास्थ्यसम्बद्धं च आधारभूतसंरचनम्, भाण्डागाराणि, फार्म-हाउस, वनक्षेत्राणि, उद्यानानि, यमुनायाः बाढक्षेत्रम्, सामाजिक-सांस्कृतिकसुविधाः च समाहितानि सन्ति। अस्याः योजनायाः उद्देश्यम् एतादृश्याः दिल्ली-नगरस्य निर्माणम् अस्ति यत्र जनानां कृते उत्तमः आवासः, उत्तमाः सार्वजनिकसुविधाः, शिक्षा, रोजगारः, आधुनिकपरिवहनसुविधाश्च प्राप्नुयुः तथा राजधानी सुरक्षितं, सुविधा-जनकं, आर्थिकदृष्ट्या सुदृढं पर्यावरण-संवेदनशीलं च नगररूपेण विकसितं भवेत्।
मुख्यमन्त्रिणी उक्तवती यत् दिल्ली-नगरस्य वर्धमानजनसंख्यायाः आवासीया-वश्यकतानां पूर्तिः मास्टर-प्लान इत्यस्य महत्त्वपूर्णः भागः अस्ति। वर्षे २०४७ पर्यन्तं दिल्ली-नगरस्य जनसंख्या प्रायः ३.२० कोटिपर्यन्तं प्राप्स्यतीति अनुमानम् अस्ति। एतत् ध्याने निधाय प्रायः ३० तः ४० लक्षपर्यन्तानां नवीनावासानां विकासस्य लक्ष्यं निर्धारितम् अस्ति, यस्मिन् आवासेषु विशेषं बलं भविष्यति। दिल्ली-नगरस्य विभिन्नानां पुरातनानाम् आवासीय-वसतीनां निवासीभिः वर्षेभ्यः प्रतीक्षितम् आसीत् यत् तेषां क्षेत्रेषु उत्तमसुविधाभिः सुनियोजितविकासेन च पुनर्विकासस्य मार्गः प्रशस्तो भवेत्। मास्टर-प्लान इत्यस्मिन् अधिकस्य एफ.ए.आर.-स्य उत्तमसुविधानां च सह आवासीयवसतीनां पुनर्विकासस्य मार्गः सुलभः कृतः अस्ति। अनेन दिल्ली-नगरस्य पुरातनानां जीर्णभवनानां आधुनिकसुविधाभिः सह पुनर्विकासस्य अवसरः प्राप्स्यते।
मुख्यमन्त्रिणी उक्तवती यत् मास्टर-प्लान-२०४७ इत्यस्मिन् झुग्गीवस्तीनां पुनर्वासस्य उत्तमावासस्य च दिशायामपि महत्त्वपूर्णाः प्रावधानाः कृताः सन्ति। ‘यत्र झुग्गी, तत्रैव आवासः’ इत्यस्य भावनानुसारं दिल्लीसर्वकारस्य डीडीए-संस्थायाः च सहयोगेन झुग्गीवस्तीनां पुनर्विकासस्य पात्रपरिवाराणां च कृते उत्तमावासस्य उपलब्धतायाः प्रयासाः अग्रे वर्धयिष्यन्ते। दिल्लीस्थितानां झुग्गीवस्तीनां कृते डीडीए-संस्थायाः दिल्लीसर्वकारस्य च समन्वयेन पीपीपी-माध्यमेन आवास-विकासस्य दिशि कार्यं क्रियते। पात्रपरिवारेभ्यः उत्तमः सम्मानजनकश्च आवासः उपलब्धः कारयितुं सर्वकारस्य प्राथमिकता अस्ति।
मुख्यमन्त्रिणी उक्तवती यत् दिल्ली-नगरस्य वर्धमानजनसंख्यया सह परिवहनस्य आवश्यकताः अपि निरन्तरं वर्धन्ते। मास्टर-प्लान-२०४७ इत्यस्मिन् मेट्रो, बसयानम्, आर.आर.टी.एस., बहुविधपरिवहनकेन्द्राणि, अन्तिमदूर-परिवहनसम्पर्कः, पदयात्रा, सायकिलयानं च एकीकृतरूपेण विकसितुं बलं दत्तम् अस्ति। सा सूचितवती यत् दिल्ली-नगरस्य मेट्रो-जालं वर्तमानस्य प्रायः ४१६ किलोमीटरमितात् ६९५ किलोमीटर-मितिपर्यन्तं वर्धयितुं योजना कृता अस्ति। तदनन्तरं यमुनायाः उभयतः प्रायः ५२ किलोमीटरमितं सायकिलमार्गं विकसितुं तथा उद्यानानि संयोजयन्तं जालं निर्मातुं च ध्यानं दत्तम् अस्ति। उत्तमं सार्वजनिकपरिवहनं न केवलं दिल्ली-वासिनां आवागमनं सुगमं करिष्यति, अपितु वाहनजनितप्रदूषणस्य न्यूनीकरणे अपि महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
मुख्यमन्त्रिणी उक्तवती यत् दिल्ली-नगरस्य व्यापारं स्थानीयार्थव्यवस्थां च सुदृढीकर्तुं मास्टर-प्लान इत्यस्मिन् महत्त्वपूर्णानि प्रावधानानि कृतानि सन्ति। ३० मीटरतः अधिकविस्तृतासु वीथिषु भूतले व्यावसायिकक्रियाकलापानाम् अनुमतिप्रदानस्य निर्णयः दिल्ली-नगराय महत्त्वपूर्णं पदम् अस्ति। अनेन स्थानीय-विपण्येभ्यः व्यवसायिभ्यश्च स्वपरिसरे एव उत्तमाः व्यावसायिकावसराः प्राप्स्यन्ति तथा रोजगारस्य आर्थिकक्रियाकलापानां च वृद्धिः भविष्यति।
मुख्यमन्त्रिणी उक्तवती यत् मास्टर-प्लान-२०४७ इत्यस्य एकं महत्त्वपूर्णम् उद्देश्यन वर्षेभ्यः प्रचलितानां जटिलतानां न्यूनीकरणम् अस्ति। सा सूचितवती यत् विभिन्नप्रयोगानां परिसरसंबद्धानां च १३३ श्रेणीनां संख्या न्यूनीकृत्य ४५ श्रेणीपर्यन्तं सीमिता कृता अस्ति।
मुख्यमन्त्रिणी उक्तवती यत् दिल्ली-नगरस्य अर्थव्यवस्थां भविष्यस्य आवश्यकतानाम् अनुरूपं सज्जीकर्तुं मास्टर-प्लान इत्यस्मिन् दत्तांशकेन्द्राणि, एकीकृताः औद्योगिकपार्काः, सहकार्य-कार्यस्थानानि, स्टार्टअप-केन्द्राणि, क्लाउड-किचन इत्यादीनि नवीनानि आर्थिकक्रियाकलापस्थानानि समाविष्टानि सन्ति। परिवर्तमानायाम् अर्थव्यवस्थायां रोजगारस्य उद्यमितायाश्च नवीनानाम् अवसराणां सृजनम् आवश्यकम् अस्ति। मास्टर-प्लान-२०४७ दिल्ली-नगरं नूतनप्रौद्योगिक्याः, नवाचारस्य आधुनिकोद्योगानां च प्रमुख-केन्द्रं कर्तुं दिशि महत्त्वपूर्णम् आधारं निर्मास्यति।
मुख्यमन्त्रिणी उक्तवती यत् मास्टर-प्लान इत्यस्मिन् विद्यालयानां, शैक्षणिकसंस्थानां, नर्सिङ्-पराचिकित्सासंस्थानां स्वास्थ्य-सुविधानां च विकासाय नियमाः अधिकं व्यावहारिकाः सुविधाजनकाश्च कृताः सन्ति। अनेन दिल्ली-नगरे शिक्षायाः स्वास्थ्यस्य च आधारभूतसंरचनायाः विस्तारे सहायता भविष्यति। दिल्ली-नगरस्य विकासः केवलं मार्गाणां भवनानां च निर्माणपर्यन्तं सीमितः न भवेत्। विकसितं नगरं तदेव भवति यत्र उत्तमावासः, गुणवत्तापूर्णशिक्षा, स्वास्थ्य-सेवा, रोजगारः, परिवहनम्, हरितक्षेत्राणि सार्वजनिकसुविधाश्च नागरिकेभ्यः एकस्मिन् समये उपलब्धाः भवन्ति।
Hindusthan Samachar / Divya Ranjan