Enter your Email Address to subscribe to our newsletters

लखनऊ, 20 अगस्तमासः (हि.स.)।प्रसवसमये मातृनवजातस्वास्थ्यस्य सुरक्षां सुनिश्चितकर्तुम् उद्दिश्य उत्तरप्रदेशे प्रारब्धा जननीसुरक्षायोजना निरन्तरं प्रभावकारिणी सिद्धा भवति। वर्तमानवित्तीयवर्षे अप्रैलमासस्य प्रथमदिनाङ्कात् अगस्तमासस्य नवमदिनाङ्कपर्यन्तं सप्तलक्षाधिकानि संस्थागतप्रसवानि अस्याः योजनायाः प्रभावस्य उदाहरणम् अस्ति। पूर्वोत्तरप्रदेशात् पश्चिमोत्तरप्रदेशपर्यन्तं अनेकजिल्हेषु योजनायाः उत्तमक्रियान्वयनस्य प्रभावः दृश्यते। सर्वकारस्य एतैः प्रयासैः मातृमृत्युदरं न्यूनीकर्तुं सफलता प्राप्यते।
जननीसुरक्षायोजनायाः अन्तर्गतं गर्भवतीभ्यः महिलाभ्यः आर्थिकसहायता प्रदीयते
स्वास्थ्यसचिवा तथा राष्ट्रियस्वास्थ्याभियानस्य निदेशिका डॉ. पिङ्की जोवल् अवदत् यत् योगिसर्वकारस्य पक्षतः सुरक्षितप्रसवाय जननीसुरक्षायोजनान्तर्गतं सर्वकारीयस्वास्थ्यसंस्थासु गर्भवतीभ्यः महिलाभ्यः प्रसवसमये आर्थिकसहायता प्रदीयते। ग्रामीणक्षेत्रे १४०० रूप्यकाणि तथा नगरीयक्षेत्रे १००० रूप्यकाणि दीयन्ते। अस्याः योजनायाः उद्देश्यम् अस्ति यत् गर्भवती महिलाः गृहे प्रसवस्य स्थाने चिकित्सालये स्वास्थ्यकेन्द्रे वा प्रसवं कर्तुं प्रेरिताः भवेयुः। योजनया प्राप्ता धनराशिः प्रसवसम्बद्धेषु व्ययेषु सहाय्यं करोति तथा महिलाः सुरक्षितप्रसवसेवानां प्राप्त्यर्थं प्रेरयति।
प्रदेशस्य विभिन्नेषु भागेषु योजनायाः उत्तमप्रदर्शनात् स्पष्टं भवति यत् संस्थागतप्रसवस्य विषये जनजागरूकता वर्धमाना अस्ति। पश्चिमभागे हाथरसः, मैनपुरी, फिरोजाबादः, हरदोई, कानपुरदेहातः, मुजफ्फरनगरम्, बागपत् च तथा पूर्वभागे जौनपुरम्, अम्बेडकरनगरम्, सोनभद्रम् च योजनायाः क्रियान्वयने तथा लाभार्थिभ्यः धनराशेः प्रदाने उत्तमं प्रदर्शनं कृतवन्तः। सोनभद्रात् मुजफ्फरनगरपर्यन्तं उत्तमं प्रदर्शनम् एतत् दर्शयति यत् जननीसुरक्षायोजना प्रदेशे सुरक्षितमातृत्वस्य दिशि महत्त्वपूर्णां भूमिकां निर्वहति।
योजनायाः लाभप्रदानस्य विषये आशाकार्यकर्त्रीणां महत्त्वपूर्णा भूमिका
किङ्ग् जार्ज् चिकित्सा विश्वविद्यालयस्य स्त्रीरोगविभागाध्यक्षया डॉ. अञ्जू अग्रवालया उक्तं यत् संस्थागतप्रसवः केवलं प्रसवस्थानस्य परिवर्तनपर्यन्तं सीमितः नास्ति, अपि तु सः माता नवजातशिशोश्च सुरक्षया प्रत्यक्षरूपेण सम्बद्धः अस्ति। चिकित्सालये प्रसवे सति प्रसवसमये उत्पद्यमानानां जटिलतानां समये एव परिचयः उपचारश्च सम्भवति। आवश्यकतायां प्रशिक्षितचिकित्सकाः, परिचारिकाः, औषधानि, रक्तस्य उपलब्धता तथा आपत्कालीनसेवाः अपि प्रदीयन्ते। एतेन मातृमृत्योः नवजातमृत्योश्च जोखिमं न्यूनीकर्तुं सहायता भवति।
योजनायाः लाभं अधिकाधिकाभ्यः महिलाभ्यः प्रापयितुं आशाकार्यकर्त्रीणां स्वास्थ्यविभागस्य क्षेत्रीयकर्मचारिणां च भूमिका अपि महत्त्वपूर्णा अस्ति। गर्भवतीभ्यः महिलाभ्यः प्रसवपूर्वपरीक्षणस्य, संस्थागतप्रसवस्य तथा उपलब्धानां सर्वकारीययोजनानां विषये सूचनां प्रदातुं सह ताः समये स्वास्थ्यसंस्थां प्रति नेतुं कार्यं कुर्वन्ति।
अगस्तमासस्य नवमदिनाङ्कपर्यन्तं ५,४३,६६१ लाभार्थिनां धनराशेः भुगतानं सम्पन्नम्
स्वास्थ्यसचिवा डॉ. पिङ्की जोवल् अवदत् यत् जननीसुरक्षायोजनान्तर्गतं अप्रैलमासस्य प्रथमदिनाङ्कात् अगस्तमासस्य नवमदिनाङ्कपर्यन्तं कुलतः ७,१७,७३६ संस्थागतप्रसवानां सापेक्षे ५,४३,६६१ लाभार्थिनां धनराशेः भुगतानं सम्पन्नम् अस्ति। एतेषु हाथरसः, मैनपुरी, फिरोजाबादः, हरदोई, कानपुरदेहातः, मुजफ्फरनगरम्, जौनपुरम्, बागपत्, अम्बेडकरनगरम् तथा सोनभद्रम् इत्येतेषु जिल्हेषु उत्कृष्टं कार्यं कृतम् अस्ति। एतेषु सर्वेषु जिल्हेषु अशीतिप्रतिशताधिकानां लाभार्थिनां धनराशेः भुगतानं सम्पन्नम् अस्ति।
केवलं सिद्धार्थनगरम्, बहराइच् तथा अलीगढ् इत्येतासु जिल्लासु पञ्चाशत्प्रतिशतं वा ततो न्यूनं वा भुगतानं सम्पन्नम् अस्ति। अतः स्थानीयाधिकारिभ्यः सर्वान् अवरोधान् दूरीकृत्य शतप्रतिशतलाभार्थिनां धनराशेः भुगतानं सुनिश्चितकर्तुं निर्देशाः प्रदत्ताः सन्ति।
------------
Hindusthan Samachar / Dheeraj Maithani