Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 अगस्तमासः (हि.स.)।दिल्लीनगरनिगमेन एमसीडी इत्यनेन ‘दिल्लीं कूड़ातः स्वातन्त्र्यम्’ इति अभियानस्य क्रमे पुरातनदिल्लीक्षेत्रस्य क्षेत्रीयदलद्वारा लालदुर्गपरिसरे तस्य आसपासेषु च क्षेत्रेषु विशेषं कार्यक्रमोत्तरस्वच्छतासफाई-अभियानं सञ्चालितम्। अयं अभियानः क्षेत्राध्यक्षायाः उषाशर्मणः क्षेत्रीयपार्षदायाः सुमनगुप्तायाः च उपस्थितौ सञ्चालितः। अस्मिन् अवसरे उपायुक्ता कनिकापि उपस्थितासीत्।
स्वातन्त्र्यदिवससमारोहस्य सफलायोजनस्य अनन्तरं लालदुर्गे तस्य आसपासेषु क्षेत्रेषु च स्वच्छताव्यवस्थां सुव्यवस्थितां स्थापयितुं निगमस्य दलद्वारा विशेषरूपेण स्वच्छताकार्याणि क्रियन्ते। अभियानस्य अन्तर्गतं कार्यक्रमस्थले सञ्चितस्य अपशिष्टस्य निष्कासनं, मार्गाणां आसपासक्षेत्राणां च स्वच्छीकरणं तथा सार्वजनिकस्थानानि स्वच्छानि सुव्यवस्थितानि च स्थापयितुं विशेषं ध्यानं दत्तम्।
एमसीडी इत्यस्य स्वच्छतादलेन आयोजनस्थले तस्य आसपासेषु क्षेत्रेषु च निरन्तरं निरीक्षणं कुर्वता आवश्यकतानुसारं स्वच्छताकार्याणि सुनिश्चितानि क्रियन्ते, येन समारोहस्य अनन्तरमपि क्षेत्रस्य स्वच्छता सौन्दर्यव्यवस्था च अक्षुण्णा तिष्ठेत्।
एमसीडी इत्यनेन नागरिकेभ्यः अपि आह्वानं कृतं यत् ते सार्वजनिकस्थलेषु अपशिष्टं न प्रसारयेयुः, निर्धारितस्थानेषु एव अपशिष्टं क्षिपेयुः तथा दिल्लीं स्वच्छां कूड़ामुक्तां च कर्तुं सञ्चाल्यमानस्य अभियानस्य सक्रियसहभागिताः भवन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani