मध्यप्रदेशे एग्रीस्टेक-पञ्जीकरणं, पैक्स-सदस्यता तथा अग्रिम-उर्वरक-उत्थान-अभियानम् अद्य प्रारभ्यते
भोपालम्, २० अगस्तमासः (हि.स.)। मध्यप्रदेशसर्वकारस्य कृषककल्याण-कृषिविकास-विभागेन वसन्तर्तोः अवसरे २०२६-२७ अवधौ कृषकेभ्यः सुव्यवस्थित-रूपेण उर्वरकं प्रदातुं तथा कृषियोजनानां लाभं प्रदातुम् उद्दिश्य सम्पूर्णप्रदेशे अद्य गुरुवासरे “एग्रीस्टेक्-पञ्जीकर
अभियान का पोस्टर


भोपालम्, २० अगस्तमासः (हि.स.)। मध्यप्रदेशसर्वकारस्य कृषककल्याण-कृषिविकास-विभागेन वसन्तर्तोः अवसरे २०२६-२७ अवधौ कृषकेभ्यः सुव्यवस्थित-रूपेण उर्वरकं प्रदातुं तथा कृषियोजनानां लाभं प्रदातुम् उद्दिश्य सम्पूर्णप्रदेशे अद्य गुरुवासरे “एग्रीस्टेक्-पञ्जीकरणं, पैक्स-सदस्यता तथा अग्रिम-उर्वरक-उत्थान-अभियानम्” प्रारभ्यते।

कृषिविभागेन निर्गते आदेशानुसारम् अस्य अभियानस्य संचालनं राज्यस्य सर्वेषु जनपदेषु १५ सितम्बरपर्यन्तं भविष्यति। सर्वकारस्य निर्देशानुसारम् अस्य अभियानस्य मुख्योद्देश्यं वसन्तर्तौ उर्वरकाणां सन्तुलितस्य विवेकपूर्णस्य च उपयोगस्य प्रोत्साहनम्, कृषकेभ्यः ई-विकास-प्रणाल्याः माध्यमेन टोकन-निर्माणस्य सुविधा, पैक्स-सदस्यतानां वर्धनं तथा कृषक-क्रेडिट-पत्रकस्य शतप्रतिशत-आच्छादनस्य लक्ष्यं पूरयितुम् अस्ति।

अस्य अभियानस्य प्रभावीक्रियान्वयनाय जनपदस्तरे २० अगस्तात् पूर्वम् अभिमुखीकरणकार्यक्रमाः आयोजिताः सन्ति। तत्र जनप्रतिनिधिभ्यः क्षेत्रीय-कर्मिभ्यश्च अभियानस्य रणनीतिः ज्ञापिता भविष्यति। ततः पैक्सस्तरे सहकारी-समितीनां माध्यमेन नूतन-सदस्यानां संयोजनम्, केसीसी-निर्माणम्, अग्रिम-उर्वरक-उत्थानस्य व्यवस्था तथा शून्यप्रतिशत-ब्याजदरेण ऋणप्रदानस्य गतिविधयः सम्पादिताः भविष्यन्ति। ई-टोकन-प्रणाल्याः सजीवं प्रदर्शनमपि करिष्यते।

ग्रामपञ्चायतस्तरे पटवारी कृषकाणां सूचीनां वाचनं कृत्वा अवशिष्टानां कृषकाणां कृषक-परिचयपत्राणि अभियान-रूपेण निर्मास्यति तथा अशुद्ध-प्रविष्टीनां संशोधनं करिष्यति।

गोधूम-चणक-सर्षप-धान्य-मुद्गादीनां सस्यानाम् उपार्जनाय, उर्वरक-बीजप्राप्तये, कृषियन्त्राणां अनुदानाय, प्रधानमन्त्री-फसलबीमा-योजनायाः लाभाय तथा ई-विपणौ सस्यविक्रयाय ‘कृषक-परिचय-पत्रम्’ अनिवार्यं कृतम् अस्ति।

अस्मिन् अभियाने पञ्चायत-ग्रामीण-विकासविभागस्य, सहकारिता-विभागस्य, राजस्वविभागस्य तथा कृषककल्याण-कृषिविकास-विभागस्य महत्त्वपूर्णा भूमिका भविष्यति।

Hindusthan Samachar / Divya Ranjan