Enter your Email Address to subscribe to our newsletters

- राज्यमन्त्री कृष्णागौरः करिष्यति शुभारम्भम्
भोपालम्, २० अगस्तमासः (हि.स.)। मध्यप्रदेशे विमुक्तानां, घुमन्तूनां तथा अर्धघुमन्तूनां समुदायानां सर्वाङ्गीणो-न्नतेः, आजीविकावर्धनस्य तथा सामाजिकसुरक्षायाः च उद्देश्यम् आधृत्य अद्य गुरुवासरे आर.सी.व्ही.पी. नरोन्हा-प्रशासन-प्रबन्धकीय-अकादम्यां, भोपाल-नगरे एकदिवसीयायाः राज्य-स्तरीयायाः कार्यशालायाः आयोजनं क्रियते।
प्रदेशस्य पश्चवर्गीय-अल्पसंख्यक-कल्याणस्य तथा विमुक्त-घुमन्तु-अर्ध-घुमन्तुकल्याणस्य राज्यमन्त्री (स्वतन्त्र-प्रभारः) कृष्णागौरः अस्याः कार्यशालायाः शुभारम्भं करिष्यति।
विमुक्त-घुमन्तु-अर्धघुमन्तु-समुदाय-विकास-सञ्चालनालयस्य तत्त्वावधाने आयोजिते अस्मिन् उच्चस्तरीये समागमे विभिन्नानां सर्वकारीयविभागानां वरिष्ठा-धिकारिणः, विषयविशेषज्ञाः तथा स्वैच्छिकसंस्थानां प्रतिनिधयः सहभागितां करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan