Enter your Email Address to subscribe to our newsletters

भोपालम्, 20 अगस्तमासः (हि.स.)।
मध्यप्रदेशस्य सामाजिकन्यायस्य दिव्याङ्गजनकल्याणस्य च मन्त्री नारायणसिंहकुशवाहः अवदत् यत् प्रदेशसर्वकारः दिव्याङ्गजनेभ्यः समानाधिकारान्, समानावसरान् सम्मानजनकं जीवनं च सुनिश्चितं कर्तुं प्रतिबद्धः अस्ति। दिव्याङ्गजनाः केवलं सर्वकारीययोजनानां लाभार्थिनः न, अपि तु प्रदेशस्य विकासस्य मुख्यधारायां समानसहभागिनः सन्ति। समावेशिनः समाजस्य निर्माणमेव अस्माकं प्राथमिकता अस्ति।
मन्त्री कुशवाहः गुरुवासरे भोपालस्थिते पलाशहोटले न्यायालयीयदिव्याङ्गजनायुक्तस्य मध्यप्रदेशस्य भोपालस्य तथा साइटसेवर्स् इण्डिया इत्यनयोः संयुक्ततत्त्वावधाने आयोजितस्य राज्यस्तरीयपरामर्शकार्यक्रमस्य “समावेशिनः मध्यप्रदेशस्य निर्माणम् : आरपीडब्ल्यूडी अधिनियमस्य राज्यदिव्याङ्गनीतेश्च विषये संवादस्य एकदशकम्” इत्यस्य उद्घाटनसत्रे एतत् उक्तवान्।
मन्त्री कुशवाहः अवदत् यत् मुख्यमन्त्री डॉ. मोहनयादवस्य नेतृत्वे मध्यप्रदेशसर्वकारः अधिनियमस्य प्रावधानानां प्रभावपूर्णरूपेण धरातले क्रियान्वयनाय सङ्कल्पबद्धः अस्ति। दिव्याङ्गजनाधिकाराधिनियमस्य आरपीडब्ल्यूडी अधिनियमस्य च २०१६ तमे वर्षे प्रवर्तनस्य दशवर्षाणि पूर्णानि भवन्ति इति देशस्य कृते महत्त्वपूर्णः अवसरः अस्ति।
सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे प्रवर्तितेन अस्मिन् ऐतिहासिके अधिनियमेन देशे दिव्याङ्गतायाः प्रति चिन्तनस्य दृष्टिकोणस्य च नूतना दिशा प्रदत्ता अस्ति। राज्यस्तरीयः संवादः अस्याः दिशायाः महत्त्वपूर्णं निर्णायकं च सोपानम् अस्ति। कार्यक्रमे दिव्याङ्गजनानाम् अधिकारानां, समानावसरस्य, समावेशिनः विकासस्य तथा आरपीडब्ल्यूडी अधिनियमस्य प्रभावपूर्णक्रियान्वयनस्य च विषये मध्यप्रदेशे दिव्याङ्गजनानां कृते नीतिनां व्यवस्थायाश्च अधिकप्रभावीकरणस्य विषये सार्थकः विचारविमर्शः कृतः।
‘सर्वेषां सहयोगेन सर्वेषां विकासेन’ सङ्कल्पेन अग्रे गमिष्यति प्रदेशः
मन्त्री कुशवाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः “सबका साथ, सबका विकास” इति आह्वानं समावेशिनः विकासस्य मूलभावनां प्रदर्शयति। सः अवदत् यत् सर्वकारस्य प्रयासः अस्ति यत् दिव्याङ्गजनेभ्यः शिक्षायां, रोजगारक्षेत्रे, सामाजिकसुरक्षायां, सुगम्यतायां तथा अन्येषु क्षेत्रेषु समानावसराः उपलब्धाः भवेयुः तथा ते आत्मनिर्भराः भूत्वा समाजस्य प्रदेशस्य च विकासे सक्रियां भूमिकां निर्वहेयुः।
सः अवदत् यत् “तादृशः मध्यप्रदेशः यत्र दिव्याङ्गजनाः केवलं योजनानां लाभार्थिनः न सन्ति, अपि तु समानाधिकारैः सह विकासस्य मुख्यधारायां सहभागिनः सन्ति, एषैव समावेशिनः समाजस्य वास्तविकः परिचयः अस्ति।”
कार्यशालायाः माध्यमेन मध्यप्रदेशे दिव्याङ्गजनानाम् अधिकारसंरक्षणस्य, नीतिनां प्रभावपूर्णक्रियान्वयनस्य तथा अधिकसुगमसमावेशिव्यवस्थानां निर्माणस्य कृते विभिन्नेषु सुझावेषु विचारधारासु च चर्चा कृता।
कार्यक्रमे ताशामहन्ता, एसपीएल, मध्यप्रदेशः, साइटसेवर्स् इण्डिया, जतिनतिवारी, डीपीओ, साइटसेवर्स् इण्डिया, डॉ. अजयखेमरिया, राज्यदिव्याङ्गजनायुक्तः, मध्यप्रदेशः, डॉ. भूषणपुनानी, सदस्यः केन्द्रीयपरामर्शसमितेः तथा महासचिवः ब्लाइण्ड् पीपल्स् एसोसिएशन, प्रो. राजीवदीक्षितः, कुलपतिः एआईजीजीपीए, भोपालः इत्यादयः विभिन्नसंस्थानां प्रतिनिधयः, सामाजिकक्षेत्रे सम्बद्धाः कार्यकर्तारः तथा अनेके गणमान्यजनाश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani